Book Title: Sambodhi 1975 Vol 04
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 377
________________ अज्ञातकविकृतम् जैनविहारशतकम् श्री शारदायै नमः उद्यन्माणिक्यमाला बहलत रमिलन्निर्यदळूरपूरध्वस्तध्वान्तप्रतानाप्रतिमविरचितानुत्तरोद्धानचैत्यम् । काश्चिल्लक्ष्मी जगाहे जलनिधिवसनाम्भोधिशायिप्रियायाप्रचूडारत्न महोयः शिरसि विनिहितं ज(नालीभुवेव (१) ॥१॥ आकाशे पारवश्यान्नलिनतनुरुहो निस्सहायावलम्बो नित्यप्राचीप्रतीचीजलधिपुलिनभूसीमभूमभ्रमीभिः । अन्तःसञ्जातखेदादिव दिवसमणिः शक्नुवन्नाभिगन्तुं कुत्रापि छानाऽस्या जिनपतिवसतेः क्षोणिमालम्ब्य तस्थौ ॥२॥ अध्नेन स्थास्नुनेव प्रमथिततमसा येन चैत्येन नित्यं व्यक्ति भूमौ निशाह्रोः कथमपि न हृदा विन्दतां कौतुकेन । तल्लक्ष्मी निर्निमेषं स्वनयनविषयीकुर्वतां कोविदानां वृन्दं वृन्दारकाणामिव पुरि सुमनोवक्षसां भासते स्म ॥३॥ आशासारङ्गचक्षुःसमुदयसदनप्राङ्गणाध्वन्यदेश्यस्फूर्जज्ज्योतिर्वितानप्रकटितपरिधिभ्राजिजैनेन्द्रधाम्ना । उद्भिन्नैव वैः स्वैर्दशशतकिरणो येन मन्येऽभिभूतः साम्यायाम्भोधिशय्यं परिचरति हरि सोऽनुसायं समेत्य ॥४॥ रुद्रस्याप्युत्तमाङ्गे हठकृतवसतेर्बिभ्रतोऽपि त्रिशूलं लक्ष्म छिद्रेण राज्ञः सममपि महसां राशिमादाय विमः । प्रासादं पद्मजन्मा प्रवणमणिगणाकीर्णमेनं व्यधत्त स्यान्नैवं चण्डरश्मेरिव हिमकिरणस्यास्य किं न प्रतापः ॥५॥ कोकानामिन्दुकान्ताप्रहरविरहिणामश्रुभिर्व्याकुलानां बन्धूनां याचतां स्वां वसतिमनुदिनं तत्कृपालुधरायाम् । उघन्माणिक्यवप्रोपधिपरिधियुगाधाय मूर्ति द्वितीयां विनः प्रासाददम्भाद्गगनमणिरसौ निर्मिमीते स्म वासम् ॥६॥ १ सूर्यः बना।

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427