Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 136
________________ १२० अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम् * गादाधरी* वत्ताघटितस्य वह्नयभाववज्जलादिमद्वृत्तिजलादिविशिष्टस्य हृदादिरूपपक्षस्य जलवान् वह्नयभाववानित्यादिज्ञानसहितस्य जलवाँश्च हद इत्यादिज्ञानस्य तादृशज्ञानविशिष्टताहशज्ञानत्वेनैव प्रतिबन्धकतया तादृशप्रतिबन्धकताशून्यज्ञानाविषयस्य सत्प्रतिपक्षाचनात्मकस्य वारणाय ज्ञानवैशिष्टयानवच्छिन्नत्वस्य प्रतिबन्धकतायामवश्यं निवेशनीयतया मन्मतेऽपि तत्रानतिप्रसङ्गादिति वाच्यम् , ॐ चन्द्रकला साघटितस्येत्यर्थः । तादृशेति । जलवान् वन्यभाववानित्याकारकनिश्चयविशिष्टजलवांश्च हद इत्याकारकनिश्चयत्वेनेत्यर्थः । प्रतिबन्धकतयेति । हृदादिधर्मिकवहन्याद्यनुमितीत्यादिः । वहन्यभाववजलवकृत्तिजलवद्धदत्यावच्छिन्नविषयकत्वस्य निरुक्तज्ञानविशिष्टज्ञाने एव सत्त्वं सूचयितुमाह ताशप्रतिबन्धकतेति। तादृशज्ञानविशिष्टज्ञानत्वावच्छिन्नप्रतिबन्धकताशून्यं यज्ज्ञानं तदविषयीभूतस्य तादृशविशिष्टस्येत्यर्थः । तथाच वह्नयभाववजलवद्वृत्तिजलवद्धदरूपविशिष्टविषयकत्वस्य तादृशज्ञानविशिष्टज्ञाननिष्ठतया तद्वयापकतायाः प्रकृतानुमितिप्रतिबन्धकतायामक्षतत्वाद् भवति हृदो वह्निमानित्यादौ तादृशविशिष्टेऽतिव्याप्तिरिति भावः । सत्प्रतिपक्षाद्यनात्मकस्येति । साध्याभावव्याप्त्यघटितत्वादित्यादिः । मन्मतेपीति । स्वरूपसम्बन्धरूपप्रतिबन्धकतावच्छेदकत्वमभ्युपगच्छतो मम मतेऽपीत्यर्थः । तत्र = पाषाणमयत्ववत्पर्वते । अनतिप्रसंगादिति । पर्वतो वह्निमान् धूमादित्यादावित्यादिः । अर्थात् उभयमते एव ज्ञानवैशिष्ट्यानवच्छिन्नत्वस्य प्रतिबन्धकताविशेषणत्वे जलव्यापकवह्नयभावसमानाधिकरणजलव-हदरूपसत्प्रतिपश्चेऽव्याप्तिः, हृदादिधर्मिकवह्नयाद्यनुमिति प्रति तादृशसत्प्रतिपक्षात्मकविशिष्टविषयकैकनिश्चयत्वेन जलव्यापको वयभावः इत्याकारकनिश्चयविशिष्टवह्नयभावसमानाधिकरणजलवांश्च हद इत्याकारकनिश्चयत्वेन च प्रतिबन्धकताद्वयकल्पनस्य गुरुतया तत्र तादृशनिश्चयविशिष्टनिश्चयवेनैकप्रतिबन्धकताया एव कल्पनीयत्वात् तत एव तादृशविशिष्ट विषयकैकज्ञानस्थलेऽपि प्रकृतानुमितिप्रतिबन्धनिर्वाहसम्भवात् , एकज्ञानस्यैव तादृशशानविशिष्टज्ञानत्यानपायादिति निरुक्तसत्प्रतिपक्षनिश्चये ज्ञानवैशिष्ट्यानवच्छिन्न प्रतिबन्धकताविरहेण जल. व्यापकवह्नयभावसमानाधिकरणजलबद्धदनिश्चयत्वव्यापकत्वस्य तादृशप्रकृतानुमितिप्रतिबन्धकतायामभावादुभयमत एव प्रतिबन्धकताया ज्ञानवैशिष्ट्यानवच्छिन्नत्वनिवेशासम्भवादित्येवं समाधानमाह ज्ञानवैशिष्ट्यति । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308