Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 240
________________ २२४ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् ____ गादाधरी अभाववत्वसामानाधिकरण्येन निवह्नित्वग्रहस्य ताशवह्निमत्त्वग्रहाविरोधित्वात्, अभाववत्त्वावच्छेदेन वह्नयादिमत्ताग्रहविरोधित्वेऽपि ताहशवह्नया. दिमत्तावगाहित्वस्य वह्नयभावादिमत्त्वरूपपक्षतावच्छेदकविशिष्टे साध्यवै. शिष्टयावगाहित्वाव्यापकतया तदवच्छिन्ननिरूपितप्रतिबन्धकतावच्छेदक ® चन्द्रकला ® अभाववत्वसामानाधिकरण्येन वढयभावशिष्टाभावक्त एव दोषत्वं स्वीकरणीयम् अभाववत्वस्य पर्वतादावपि सत्त्वेन तत्र वलयभावस्य विरहात् अभाववत्त्वावच्छेदेन वह्नयभाववैशिष्टचाऽप्रसिद्धया तदवच्छेदेन वह्नयभावस्य दोषत्वाऽ. सम्भवादेवञ्चाऽभाववत्त्वसामानाधिकरण्यावगाहिवह्नयभावनिश्चयप्रतिबध्यतावच्छेदकमभाववत्त्वावच्छेदेन बयभावप्रकारकत्वमेव, तदभावं प्रत्येव तादृशबाधनिश्चयविषयितायाः प्रयोजकतया निर्वह्निविशेष्यकवह्निप्रकारकत्वाभावाधिकरणतायास्ताशवाधनिश्चयविषयित्वाऽप्रयोज्यत्वात् अभाववत्त्वावच्छेदेन वहिप्रकारकत्वस्य निर्वही वहथवगाहित्वाऽव्यापकत्वात् । ___ अभाववत्त्वसामानाधिकरण्येन वह्नयवगाहित्वस्य निर्वह्निधर्मिकवह्निप्रकारकत्वव्यापकत्वेऽपि तस्याऽभाववत्त्वसामानाधिकरण्येन वह्नयभावरूपभवदभिमतबाधनिश्चयप्रतिबध्यतानवच्छेदकतया तदभावाधिकरणताया निरुक्तवाधनिश्चयविषयिताप्रयोज्यत्वाऽसम्भवादित्य कामेनाऽपि वह्नयभावविशिष्टवह्नयभाववत एव दोषत्वस्यावश्यकतया भवति तत्राऽव्याप्तिरित्येवं समाधत्ते अभाववरवेति । शुद्धस्वरूपेणाभाववति वह्वयभावप्रकारकनिश्चयस्येत्यर्थः । ताशेति । अभाववत्त्वसामानाधिकरण्येन अभाववति शुद्धसंयोगेन वह्निप्रकारकत्वस्य निर्वह्निविशेष्यकवह्निप्रकारकत्वव्यापकत्वेऽपि तदभावाधिकरणताया अभाववत्त्वसामानाधिकरण्येन वह्नयभावप्रकारकनिश्चयीयविषयिताप्रयोज्यत्वविरहान्नाभाववत्त्वसामानाधिकरण्येन वह्नयभावादेदोषत्वमपि वक्त शक्यमितिभावः । अभाववत्त्वावच्छेदेनेति । अभाववत्त्वव्यापकवह्निप्रतियोगिकसंयोगेनाभाववान् बह्निमान् इत्याकारकग्रहप्रतिबन्धकत्वेऽपोत्यर्थः । अभाववत्त्वसामानाधिकरण्येन निर्वह्नित्वग्रहस्येति पूर्वेण सम्बन्धः । तादृशेति अभाववत्त्वावच्छेदेन वह्वयादिमत्तावगाहित्वस्येत्यर्थः। पक्षतेति । निर्वह्नित्वविशिष्टे वह्नयवगाहित्वाऽव्यापकतयेत्यर्थः । तदवच्छिन्नेति । अभाववत्त्वावच्छेदेन वह्निप्रकारकत्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकाभाववत्त्वसामानाधिकरण्यावगाहिवह्नयभावनिश्चयीयविषयिताया इत्यर्थः । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308