Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 298
________________ २८२ अनुमानगादाधों सामान्यनिरुक्तिप्रकरणम् * दीधितिः * विशिष्टविषयकत्वेन प्रतिवन्धकत्वम्, विशिष्टञ्च गादाधरी इदमुपलक्षणम्-वह्निमान धूमादित्यादी विरोधिपरामर्शशून्यकालेऽपि तद्विषयकविरोधिव्याप्त्यादिकमादायापि हेतोदुष्टत्वप्रसङ्गो बोध्यः, तत्रापि पक्षांशे तद्विशिष्टविशेषण कसमूहालम्बनज्ञानसम्बन्धेन हेतौ तद्वैशिष्ट्यसम्भवात् । __ अनतिरिक्तवृत्तित्वरूपमेवावच्छेदकत्वं विवक्षणीयमित्यभिप्रायेण बाधभ्रमप्रतिबन्धकतामादायातिप्रसङ्गाय उद्धारमाशङ्कते विशिष्टेति । साध्या. भावविशिष्टपक्षविषयकत्वमेव प्रतिबन्धकतानतिरिक्तवृत्ति न तु साध्याभावादिमात्रविषयकत्वमित्यर्थः । विशिष्टश्च = साध्याभावविशिष्टपक्षश्च, * चन्द्रकला हेतौ वर्तमानतया तस्य पूर्वोक्तक्रमेण सत्प्रतिपक्षितसद्धेतोरपि दुष्टत्व-सम्भवेऽपि पर्वतो वह्निमान् धूमादित्यादौ धूमेऽतिव्यातिः, पर्वतो वह्नयभाववानित्याकारकभ्रमीयवह्नयभावविषयिताया श्रपि पर्वतधर्मिकवह्नयनुमितिप्रतिबन्धकतावच्छेदकतया तादृशवह्नयभावविषयकधूमविषयकसमूहालम्बनज्ञानविषयतात्मकस्वविषयकज्ञानविषयत्वसम्बन्धेन वह्नयभावादिमत्त्वस्य धूमे सत्त्वादित्यभिप्रायः ।। निरुक्तलक्षणकत नये विरोधिपरामर्शद्वयसंवलनादेव सद्धतौ सत्प्रतिपक्षत्वमिष्टं नतु विरोधिपरामर्शशून्यकाले, तथा सत्यपि विरोधिपरामर्शशून्यकाले तन्मते पर्वतो वह्निमान्धमादित्यादौ धूमादिसद्धतावतिव्यातिः, विरोधिव्याप्तथादिविषयकधूमादिविषयकसमूहालम्बनशानविषयत्वसम्बन्धेन विरोधिव्यातयादिमत्वस्य धूमादौ अक्षतत्वादिस्याह इदमुपलक्षणमिति । तद्विषयकेति धूमादिविषय केत्यर्थकम् । अतिव्याप्तिमुपपादयति तत्रापीति । धूमादिहेतावपीत्यर्थः । तद्वैशिष्ट्यसम्भवात् = विरोधिव्याप्तयादिमत्त्वसम्भवात् ।। __ यादृशधिशिष्टविषयकनिश्चयत्वं प्रकृतानुभितिप्रतिबन्धकतानतिरिक्तवृत्ति तादृशविशिष्टवत्त्वं दुष्टत्वमित्यभिधाने पर्वतो वह्निमान् धमादित्यादौ केवलवह्नय. भावमादाय धूमादेदुष्टत्ववारणसम्भवेऽपि सत्प्रतिपक्षसंवलनदशायां भवन्मतसिद्धस्य सीतोर्तुष्टत्वस्यानुपपत्तिः,विरोधिव्याप्तयादिविषयकत्वस्थ प्रतिबन्धकतातिरिक्तवृत्तित्वात् साध्याभावव्याप्यविशिष्टपक्षस्य चाप्रसिद्धत्वाद् यादृश विशिष्टपदेन तस्योपादानासम्भवादित्याह अनतिरिक्तति । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308