Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 301
________________ चन्द्रकला कलाविलासाख्यटीकाद्वयोपेतम् * गादाधरी * नुरोधात् कदाचिदेव क्वचिदेव कस्यचित् सम्बन्धः एवञ्च विरोधिव्याप्त्यादेर्ज्ञानं विरोधिपरामर्शदशायामेव प्रकृतहेतौ तत्सम्बन्धः, तदैव तत्र दुष्टताव्यवहारात्, साध्याभावादेर्ज्ञानन्तु तत्र न कदाचिदपि तथा, पर - मेश्वरादिसाधारणं साध्याभावविशिष्टपक्षादेर्शानन्तु तत्र सर्वदैव इति । तत्त हास्यास्पदमेव सकलाभियुक्त पुरुषसाधारणस्य नियतव्यवहारस्यासिद्धत्वात् वासनाविशेषवतां तादृशव्यवहारस्य विपरीतस्यापि सम्भवात् ज्ञानस्य नियतसम्बन्धत्वासाधकत्वादिति । २८५ * चन्द्रकला वषयतात्मकसम्बन्धेन । तद्वत्त्वम् = तादृशविरोधिव्याप्यादिमत्त्वम् । कस्यचित् सम्बन्ध इति । न तु सर्वदा सर्वस्येति शेषः । तथाच विरोधिपरामर्शशून्यतादशायां न सद्धेतावतिव्याप्तिः, तदानीं तादृशज्ञानविषयत्वादेः सम्बन्धत्वाकल्पनात्, एवं बाघभ्रमस्थलेपीत्याह एवञ्चेति । क्वचिदेव कस्यचित् तादृशज्ञानविषयत्वादेः सम्बन्धता कल्पने चेत्यर्थः । तदैव = विरोधिपरामर्शदशायामेव । ननु बाघस्य नित्यदोषतया कदाचित्तस्य तादृशसम्बन्धत्वमप्रसिद्धमित्यत श्राह साध्येति । तथा = सम्बन्धः । सर्वदैवेति । तथा च बाधस्थले स्वविषयकज्ञानविषयत्वादेः सर्वदैव सम्बन्धता वाच्या, तत्र सर्वदैव हेतोर्दुष्टत्वादिति भावः । यदा यत्र हेतौ यस्य दुष्टताव्यवहारस्तदा तत्रैव ज्ञानस्य तदीयसम्बन्घतेति व्यवहारस्य ज्ञाननिष्ठसम्बन्धतासाधकत्वं ส सम्भवतीत्याशयेन दूषयति हास्यास्पदमेवेति । निरुक्तमतस्य दास्यास्पदत्वे युक्तिमाह सकलेति । सकलमतमतान्तरवादिपुरुपादौ वर्तमानस्येत्यर्थः । नियतेति । ज्ञाननिष्ठसम्बन्धताव्याप्यस्व व्यवहारस्याऽसिद्धत्वादित्यर्थः । वासनेति मिथ्याज्ञानादिजन्य संस्कारवतां पुरुषाणामित्यर्थः । तादृशेति दुष्टेऽप्यदुष्टत्वव्यवहारस्य सम्भवादित्यर्थः । ज्ञानस्येत्यादि । ज्ञाननिष्ठं यत् व्यवहारव्यापकत्वेनाभिमतं सम्बन्धत्वं तत्साधकत्वाभावादित्यर्थः । व्यवहारस्येति शेषः । तथाच मतान्तरवादिनां पुरुषाणामपि नियमेन एक एव व्यवहारो भवतीति न वक्तुं शक्यते, मिथ्याधीजन्य संस्कारवतां दुष्टेऽदुष्टत्वस्य दुष्टे दुष्टत्वस्य व्यवहारदर्शनातू व्यवहारस्य ज्ञाननिष्ठसम्बन्धत्वाव्याप्यत्वात् एवञ्च बाघादिभ्रममादाय सद्धेता "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308