Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 302
________________ २८६ अनुमानगादाघयां सामान्यनिरुक्तिप्रकरणम् * चिन्तामणिःयद्यपि बाधसत्प्रतिपक्षयोः प्रत्यक्षशाब्दज्ञानप्रतिबन्धकत्वान्न लिङ्गामासत्वम्, तथापि ज्ञायमानस्याऽऽभासस्याऽत्र लक्षणम् । * दीधितिः ** यद्यपीति । स्थाणुत्वाभावस्य तद्व्याप्यकरादेश्च निश्चये स्थाणुत्व. प्रत्यक्षशाब्दयोरनुदयात् । • गादाधरी. यद्विषयकत्वेनेति यथाश्रतकल्पे कामिनीजिज्ञासादिविषये अतिव्याप्तिरित्यसाधारणप्रतिबन्धकताघटितमेव लक्षणं करणीयं तत्रैवाशङ्कते मूले यद्यपोति । समाधानमपि ज्ञायमानं सदित्यादितृतीयलक्षणाभिप्रायेण "तथापी" त्यादिनेति बोध्यम् । बाध-सत्प्रतिपक्षज्ञानयोः प्रत्यक्षशाब्दज्ञानप्रतिबन्धकत्वमभिधाय बाध-सत्प्रतिपक्षयोरनुमितिमात्रवृत्तिधर्मावच्छिन्नप्रयोज्यतानिरूपितप्रयोजकताश्रयाभावप्रतियोगिज्ञानविषयत्वस्वरूपं लिङ्गासाधारणदोषत्वं न सम्भवतीत्याक्षिप्तं मणिकृता, तादृशप्रतिबन्धकतायाञ्च युक्ति!क्तति न्यूनतापरीहाराय तत्र युक्तिमाह दोधितौ स्थाणुस्वाभावस्येति । स्थाणुत्वप्रत्यक्षशाब्दयोरिति । समानधम्मितावच्छेदककस्य स्थाणुत्वप्रकारकस्य, लौकिक सन्निकर्षाद्यजन्यप्रत्यक्षस्य शाब्दरय चेत्यर्थः । * चन्द्रकला * वतिव्याप्तिदुर्वा रैवेति भावः । लिंगज्ञानजन्यज्ञानमात्रवृत्तिवर्मावच्छिन्नप्रयोज्यतानिरूपितप्रयोजकतावदभावप्रतियोगिज्ञानविषयत्वम् लिंगाभासत्वम्, तच्च वाधे सत्प्रतिपक्षे च न सम्भवति, बावसत्प्रतिपक्षनिश्चयस्य लौकिकसन्निकर्षाद्यजन्यप्रत्यक्षशाब्दादिप्रतिबन्धकतया तदभावस्य तादृशबुद्धिमात्रप्रयोजकत्वेन लिंगजन्यज्ञानमात्रावृत्तिधर्मावच्छिन्ननिरूपितप्रयोजकतायास्तत्र विरहात् इत्याक्षेपस्य मूलोक्तस्य शाब्दादिप्रतिबन्धकतायां युक्तिप्रदर्शनेन प्रामाणिकत्वं कुर्वतां दीधितिकृतां स्थाणुत्वेति ग्रन्थं व्याचष्टे समानेति । लौकिकसन्निकर्षादिजन्य प्रत्यक्षस्य बाधसत्प्रतिपक्षनिश्चयाऽप्रतिवध्यत्वादाह लौकिकेति । शाब्दस्य =शाब्दबोध स्य समानधर्मितावच्छेदककस्येतिपूर्वेणान्वयः । शान्दबोधं प्रत्यपि यदि वाधनिश्चयस्य तदभावव्याप्यनिश्चयस्य च प्रतिबन्धकत्वं तदा नरशिरःकपालं शुचि प्राण्यंगत्वादित्यादौ कर्मानधिकारप्रयोजकस्पर्शाभाववस्वरू "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308