Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini
View full book text
________________
२९
अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम्
* दोधितिःरागमविरोधेन चा व्याप्तिनिश्चयस्यानुत्पत्तेरिति भावः।
___® गादाधरी भावेन व्याप्तिनिश्चयस्य बलवत्तरागमविरोधेनानुमितेरनुत्पत्तेरिति योजना। एवञ्च वास्तवव्याप्यधर्मस्य येन केनापि रूपेण ज्ञानमेव न विरोधि, अपि तु व्याप्यत्वरूपेण, अत्र च प्राण्यङ्गत्वस्य ज्ञानेऽपि व्याप्तिग्राहकतर्कविरहेण व्यभिचारशङ्कया शौचव्याप्यत्वेन तज्ज्ञानं न सम्भवति, कारणान्तरविरहेण यत्र व्यभिचारशङ्काविरहस्तत्र कथश्चिव्याप्तिप्रहेऽपि गृहीतप्रामाण्यकागमतात्पय्यविषयविपरीतविषयकत्वेन तत्राप्रामाण्यं गृह्यते, तथाच तादृशप्राण्यगत्वज्ञानं न शौचानुमितिजनने शाब्दाशौचज्ञान
ॐ चन्द्रकला त्वानुमितिरित्याह व्याप्तिनिश्चयस्येत्यादि । येन केनापि = हेतुतावच्छेदकादिरूपेणापि । ज्ञानमेव =निश्चय एव । विरोधि - प्रतिबन्धकम् ।
तद्भानम् = प्राण्यङ्गत्वज्ञानम् । ननु याहशस्थलविशेषे कस्यचित् व्यभिचारसंशयकारणस्य विरहादेव क्यभिचारशंका नोत्पद्यते ताहशस्थले शुचित्वव्याप्तिनिश्चयस्य ताहशव्याप्तिविशिष्टप्राण्यङ्गत्वनिश्चयजन्यशुचित्वानुमितेश्वोत्पत्या तदुत्तरक्षणे अाग. मजन्याऽशुचित्वबोधो न स्यादित्यत आह कारणान्तरेति । दोषादिघटितेत्यादिः । अनुकूलतकस्य साक्षादेव व्याप्तिनिश्चयहेतुत्वमते तद्विरहदशायां व्याप्तिनिश्चयोत्पादो न सम्भवतीत्यतः कथरिवदिति । अनुकूलतर्फप्रयो. ज्यव्यभिचारसंशयाभावस्य व्यभिचारज्ञानाभावस्यैव वा व्यातिनिश्चयहेतुत्वे तु व्यभिचारशंकाविरहदशायां भवति व्याप्तिनिश्चय इति भावः।।
- गृहीतेति । गृहीतप्रामाण्यकागमे यत्तात्पर्य तद्विषयीभूताशुचित्वबोधविषय. विपरीतशुचित्वरूपविषयसाधकत्वेनेत्यर्थः । तत्र = व्याप्तिज्ञाने । अप्रामाण्यम् = अप्रमाणत्वम् ।
भावमाह तथाचेति । तादृशप्राण्यङ्गत्वज्ञानम् -शुचित्वव्याप्यप्राण्यङ्गत्ववत् कपालमित्याकारकमप्रामाण्यज्ञानास्कन्दितज्ञानम् । न शुचित्वेति । अप्रामाण्यज्ञानानास्कन्दितस्यैव परामर्शस्यानुमितिहेतुत्वादिति भावः ।
शाब्दाऽशौचेति । अशुचित्वबुद्धिं प्रत्यपि अप्रामाण्यज्ञानानास्कन्दितं तदभावव्याप्यवत्तानिश्चयात्मकशुचित्वव्याप्यप्राण्यङ्गत्ववत् नरशिरःकपालमित्याका. रकशानं प्रतिबन्धकमित्याशयः ।
"Aho Shrutgyanam"

Page Navigation
1 ... 302 303 304 305 306 307 308