Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 305
________________ लाविलासाख्यटीकाद्वयोपेतम् * गादाधरी * प्रतिबन्धे वा प्रभवतीति समुदितार्थः । आगमे प्रामाण्यग्रहश्च शिष्टपरिग्र हादिनैव भवति, यावच्च तादृशपरामर्शे नाप्रामाण्यं गृह्यते तावन्न भवत्येवागमप्रवृत्तिरिति भावः । यद्वेत्यादिग्रन्थेन चन्द्रकला-कला बाधादिज्ञानस्यानुमित्यतिरिक्तज्ञानाप्रतिबन्धकत्वं व्यवस्थाप्य बाधादेर्लिङ्गासाधारणदोषत्वमेवोपपादितम् मूलकृता, तन्न सङ्गच्छते, बाधितार्थस्य शाब्दबोधाभ्युपगमेऽनुमितेरप्यनपराधात्तत्राप्रामाण्यग्राहकतया बाधादिग्रहस्य प्रवृत्त्यादिविरोधितोपपत्तेरित्युक्त कल्पे ग्रन्थकृतोऽ २८९ • चन्द्रकला ● समुदितार्थः = समुदितग्रन्थतात्पर्यम् । तथाच व्यभिचारसंशयाभावात् व्याप्तिग्रहोत्पादेऽपि तादृशव्याप्तिग्रहस्योक्तयुक्त्याऽप्रामाण्यज्ञानास्कन्दिततया तेन शौचानुमितेरुत्पादस्याशौचशाब्दस्यानुत्पादस्यासम्भवात् भवति शाब्दाशौचबोध इति भावः । 1 शिष्टेति । तथाचायमागमः प्रमाणम्, शिष्टपरिगृहीतत्वात् शिष्टपुरुषीयप्रवृत्तिजनकज्ञानजनकत्वात् इदमागमजन्यज्ञानम् प्रमा शिष्टप्रवृत्तिजनकत्वादिति वानुमा नमित्यभिप्रायः । 3 ननु कारणान्तरविरहेण तादृशव्याप्तिग्रहे परामर्शे वा यदा श्रप्रामाण्यग्रहस्यैवनोत्पादस्तदाऽगमजन्याऽशुचित्वबोधो न स्यादित्यत श्राह यावच्चेति । तथा च तदानीमागम जन्यबोधो न भवत्येव । अतएवोक्तम् तावन्न भवत्येवागमप्रवृत्तिरिति शुचित्वव्याप्यवत्तापरामर्शेऽप्रामाण्यग्रहानुत्पादे तादृशपरामर्शेन तजन्यशुचित्वानुमित्यैव वा शाब्दाशौचबोध प्रतिबन्धसम्भवात् कुतः प्रवृत्तिरिति तु समुदिततात्पर्यम् । वाघनिश्चयस्य तदभावव्याप्यवत्तानिश्चयस्य चानुमितिमात्रं प्रत्येव प्रतिबन्धकत्वं न तु प्रत्यक्ष शाब्दादिप्रतिबन्धकत्वम्, बाधादिनिश्चयदशायां प्रत्यक्षादेरुत्पादेऽपि न तद्विषयादौ प्रवृत्तिः, बाधनिश्चयादिना उत्पन्नप्रत्यक्षादौ अप्रामाण्यग्रहस्यैव जननात् प्रमाज्ञानस्यैव प्रवृत्तिजनकत्वादिति तु यद्वेत्यादिना मणिकृताभिहितम्, तत्र संगच्छते, उपनयसन्निकर्षजन्यप्रत्यक्षे शाब्दबोधे च बाधादिनिश्चयस्यान्यप्रतिबन्धकतायाः स्वयं वक्ष्यमाणत्वादतो यद्वत्याद्यभ्युपगममात्रमितिदीधितिग्रन्थस्य यथोक्तमेवावतरणमाह वाधादीति । बाधादिनिश्चयस्य शाब्दबोधप्रतिबन्धकत्वे युक्तिमप्याह बाधितार्थस्येत्यादि । तत्र = अनुमितौ । ग्रन्थकृतः = मूलकारस्य 1 समानेन्द्रियजन्यबाध निश्चयस्य प्रत्यक्षप्रतिबन्धकतया बाघनिश्चयसामान्यस्य "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 303 304 305 306 307 308