Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini
View full book text
________________
२९१
चन्द्रकला-कलाविलासास्यटीकाद्वयोपेतम् २९१
दीधितिः ॐ तदभावो न तत्र हेतुरिति चेदेवमप्युपनीतभानविशेष प्रति तत्त्वेन हेतुताया दुर्वारत्वात् । इति महामहोपाध्याय-श्रीरघुनाथशिरोमणिभट्टाचार्यविरचिता
__हेत्वाभासे सामान्यनिरुक्तिदीधितिः समाप्ता ।
* गादाधरी * निर्वाहादिति भावः । तदभावः = बाधादिनिश्चयाभावः, तत्र = शाब्दबुद्धौ । यद्यपि योग्यबाधसंशयद्वितीयक्षणे स्मरणाद्यात्मकयोग्यतानिश्चये सति तद्वितीयक्षणे शाब्दज्ञानवारणाय तदभावस्य शाब्दबोधहेतुत्वस्यावश्यकत्वम् , तथापि बाधादिज्ञानम्य शाब्दाप्रतिबन्धकत्वेऽपि निविवादोपनीतभाने विशेषप्रतिबन्धकतयैव बाधादेर्लिङ्गासाधारणदोषत्वनिराकरणसम्भवात्तत्रैव तन्निराकरोति एवमपीति । उपनीतभानविशेषम् = दोषविशेषाजन्योपनीतभानविशेषम्, तत्त्वेन = बाधनिश्चयाद्यभावत्वेन । दुरित्वादिति । बाधादि निश्चयदशायामनुमितेरिव तादृशोपनीतभानानुत्पादयस्य सर्वानुभवसिद्धत्वादिति भावः । इति महामहोपाध्याय-श्रीगदाधरभट्टाचार्यविरचिता हेत्वाभाससामान्य निरुक्तिदीधितिविवृतिः समाप्ता ।
* चन्द्रकला * योग्यतासंशयस्य ग्राह्यसंशयात्मकतया तस्य प्रत्यक्षादिप्रतिबन्धकल्वात् स्मरणाद्यात्मकेति । श्रादिना श्रानुमानिकबाधादिनिश्चयपरिग्रह । तदभावस्य = बाधादिनिश्चयाभावस्य ।
तथापि बाधादेन लिङ्गाऽसाधारणदोषत्वम् उपनीतप्रत्यक्ष प्रति तस्य प्रतिबन्धकत्वादित्यादिदोधिति व्याचष्टे तत्त्वेनेति । तादृशोपनीतेति दोषविशेषाजन्योपनीतेत्यर्थकम् , अन्यत् सुगममितिदिक ।
इति श्रीमदुदासीनपरमहंसपरिव्राजकाचार्यवयं-श्रीमत्स्वामिजयरामदासभगवत्पादशिष्य - समस्तभारतवर्षप्रसिद्ध-सिन्धुमहानदान्तर्वत्ति - श्रीसाधुवेलातीर्थाधीशपदवाक्यप्रमाणपारावारीण-स्वामिश्रीहरिनामदासविरिचता हेत्वाभाससामान्यनिरुक्ति. चन्द्रकला टीका समाप्ता ।
"Aho Shrutgyanam"

Page Navigation
1 ... 305 306 307 308