Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini
View full book text
________________
अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम्
* चिन्तामणिः *
यद्वा प्रत्यक्षादौ बाधेन न ज्ञानं प्रतिबध्यते, किन्तूत्पन्नज्ञानेऽप्रामाण्यं ज्ञाप्यते, अनुमितौ तूत्पत्तिरेव प्रतिबध्यते । ते च सव्यभिचारविरुद्ध सत्प्रतिपक्षाऽसिद्धबाधिताः पञ्च । इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्वचिन्तामणौ अनुमानाख्यद्वितीयखण्डे हेत्वाभाससामान्यनिरुक्तिः समाप्ता ।
* दीधितिः *
૬૦
त्याद्यभ्युपगममात्रं प्रत्यक्षं प्रत्यानुमानिकवाधादिनिश्चयस्याप्रतिबन्धकत्वेऽपि शब्द प्रति प्रतिबन्धकत्वात् । योग्यताज्ञानेनान्यथासिद्ध वात् * गादाधरी *
निर्भरमाह यद्वत्यादीति । नन्वानुमानिक बाधादिनिश्चयदशायामपि लौकिकसन्निकर्षादितः प्रत्यक्ष निश्चयोत्पत्त्या बाघनिश्चयसामान्यस्य प्रत्यक्षप्रतिबन्धकत्वं न सम्भवतीत्यनुमित्य साधारणप्रतिबन्धकत्वं बाघनिश्चयत्वावच्छिन्नस्याक्षतमतो यद्विषयकनिश्चयत्वेनानुमित्य साधारणप्रतिबन्धकत्वं तद्वत्त्वस्य लक्ष्यताप्रयोजकत्वाभिप्रायेण यद्वत्यादिग्रन्थस्य बाधे लक्ष्यतो. पपादकत्वं सुसङ्गच्छते इत्यत श्राह प्रत्यक्ष प्रतीति ।
समानेन्द्रियजन्यबाध निश्चयसत्त्वे लौकिकप्रत्यक्षस्याप्यनुत्पत्तेरानुमानिकेति बाधनिश्वयविशेषणम् । शाब्दं प्रतीति । तथाच तावतैव लिङ्गासाधारणदोषत्वव्याघात इति भावः ।
तत्रापि तदप्रतिबन्धकत्वमाशङ्कते योग्यतेति । अन्यथासिद्धत्वादिति । बाधादिनिश्चयदशायां योग्यताज्ञानरूपकारणविरहेणैव शाब्दबोधानुत्पाद
● चन्द्रकला *
प्रत्यक्ष प्रतिबन्धकत्वमसम्भवि, आनुमानिकवाघनिश्चयदशायाम् प्रत्यक्षोत्पादस्यावश्यकत्वादिति बाधादे: अनुमितिमात्र विरोधितया तस्य लिङ्गासाधारणदोषत्वं निर्विवादमिति तु न शक्यम्, शाब्दं प्रति बाधादेविरोधित्वादेव तस्यानुमितिमात्राविरोधित्वात् इति दीधितिकारारायं प्रदर्शयति तथाचेति ।
तावतैव = शाब्दं प्रति बावादिनिश्चयस्य प्रतिबन्धकत्वादेव । तत्रापि = शाब्दबोsपि । शाब्दबोधानुत्पादेति । बावादिनिश्चयस्यैव कत्वादित्याशयः ।
योग्यताज्ञानप्रतिबन्ध
"Aho Shrutgyanam"

Page Navigation
1 ... 304 305 306 307 308