Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini
View full book text
________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २८७
* दीधितिःनचैवं नरशिरःकपालं शुचि प्राण्यङ्गत्वादित्यादिनाप्यागमनतिरोधः स्यात् , तत्रानुकूलतर्काभावेन बलवत्त
गादाधरी एवम् शाब्दबुद्धौ बाध-तदभावव्याप्यवत्ताज्ञानयोः प्रतिबन्धकत्वे । नरशिरः कपालमिति । नरशिरःकपालस्य शुचित्वानुमापकेन तद्धर्मिकप्राण्यगत्वपरामर्शन स्वतः फलद्वारा चागमजन्याशौचबोधविरोधः स्यादित्यर्थः। स चानुभवविरुद्धः, तत्र प्राण्यङ्गत्वज्ञानदशायामपि शाब्दाशौचज्ञानस्यानुभवसिद्धत्वादिति भावः ।
समाधत्ते तत्रेति । तादृशाशौचज्ञानप्राक्काल इत्यर्थः। अनुकूलतर्का
पशुचित्वव्याप्यप्राण्यङ्गत्ववत् नरशिरःकपालम् इत्याकारकपरामशदशायां निरुक्तपरामर्शजन्यतादृशशुचित्वनिश्चयरूपानुमितिदशायां वा तादृशनिश्चयाव्यवहितोत्तरक्षणे सर्वानुभवसिद्धस्य चितिं च चितिकाष्ठञ्च मृतांगञ्चत्याद्यागमजन्यस्य कर्मानधिकारप्रयोजकस्पर्शामाववत्त्वाभाववत्त्वरूपाशुचित्ववोधस्य उत्पाद एव न स्यात् , पूर्वमशुचित्वव्याप्यत्वादिनिश्चयस्य शान्दादिप्रतिबन्धकस्य सत्त्वादितिदीधितिकृतां शंकाशयं प्रदर्शयति एवमित्यादि ।
नद्धर्मिकेति । तादृशकपालधर्मिकेत्यर्थकम् । स्वतः- तादृशपरामर्शतः । परामर्शसत्त्वदशायां वाधकान्तरविरहेणावश्यमेव कार्यमुत्पद्यते इत्यत आह फलद्वारा वेति । तादृशपरामर्शजन्यशुचित्वानुमितिद्वारा वेत्यर्थः । स च =अागम• जन्याऽशुचित्ववोधश्च ।
केवलं नरशिरःकपाले प्राण्यङ्गत्वज्ञानमात्रन्तु नाशुचित्त्वशाब्दवोधं प्रतिबध्नाति अपितु शुचित्वव्याप्ति विशिष्टप्राण्यङ्गत्वस्य कपालादौ ज्ञानमेव तथा, एवञ्चागमजन्याशुचित्ववोधात् पूर्व अनुकूलतर्काभावेन बलवत्तरप्रमाणागमस्य सत्त्वेन च प्राण्यजवादी शुचित्वव्यासिनिश्चय एव न भवति, व्याप्तिनिश्चयाभावे शुचित्वानुमितेरप्यनुदयेन अशुचित्ववोधात् पूर्व शुचित्वरूपाशुचित्वाभावव्याप्यनिश्चयस्य तजन्यस्य अशुचित्वाभावरूपशुचित्वात्मकवाधनिश्चयस्य चोत्पादाऽसम्भवात् प्रतिबन्धकाभावे. नागमजन्यवोधः सम्भवत्येवेत्याह समाधत्ते इति ।
तादृशेति आगमजन्येत्यर्थकम् । अनुमितेः पूर्वमेव बलवत्तरागमजन्याशु. चित्ववोघस्योत्पच्या तेनैव प्रतिबन्धादुत्तरकालं न शुचि
"Aho Shrutgyanam

Page Navigation
1 ... 301 302 303 304 305 306 307 308