Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 300
________________ २८४ अनुमानगादाधयाँ सामान्यनिरुक्तिप्रकरणम् * दीधितिः * यादशसम्बन्धावगाहित्वेन ज्ञानस्य प्रतिबन्धकत्वं तेन तद्वत्त्वञ्च न सर्वत्र सत्प्रतिपक्षिते हेतावस्ति च क्वचित् सद्धताविति कृतं पल्लवितेन । * गादाधरी* च्यम् । एवकच स्वरूपसम्बन्धावच्छिन्नसाध्याभावववृत्तित्वादिप्रकारतानिरूपितहेतुविशेष्यताशालित्वेनैव व्यभिचारादिज्ञानस्य प्रतिबन्धकतया तेन सम्बन्धेन तद्वत्त्वस्य च प्रकृतहेतावभावात् नातिव्याप्तिरित्याशङ्को निराकुरुते यादृशेति । सर्वत्र सत्प्रतिपक्षित इति । ह्रदो वह्निमान् धूमादित्यादिस्थले धूमादिरूपहेतौ व्याप्यताघटकसमवायादिसम्बन्धेन वह्नयभावव्याप्यधूमत्वादिमत्तायाः सत्त्वात् सर्वत्रेत्युक्तम् । क्वचित् सद्ध ताविति । सद्धतुतादशायां क्वचिदित्यर्थः । पर्वतो वह्निमान् धूमादित्यादौ विरोधिपरामर्शासमवधानदशायामपि प्रतिबन्धकतावच्छेदकप्रकारताश्रयवहथभावसव्याप्यादेः तादृशप्रकारतावच्छेदकस्वरूपादिसम्बन्धेन धूमादिवृत्तित्वादिति भावः। यत्तु-ज्ञानसम्बन्धेन तद्वत्त्वमेव दुष्टत्वम् , ज्ञानञ्च विशिष्टव्यवहाराद्य *चन्द्रकला. प्रकारतावच्छेदकस्वरूपसम्बन्धेन । तद्वत्वस्य = वह्नयभाववद्वात्तित्वादिमत्त्वस्य । हेतौ वहिसायकधमादिसद्धती। व्याप्यताघटकेति । हृदो वह्निमान् धूमवत इत्यादौ जलत्वादेः समवायसम्बन्धेन वह्नय भावव्याप्यतया तेन सम्बन्धेन वह्नयभावव्याप्यस्य धूमवत्पर्वतादौ विरहात् तादृशधूमधदादेदुष्टत्वानुपपत्तिरित्यर्थः । सर्वत्रेत्युक्ति समर्थयति ह्रदो वह्निमानिति । ___ क्वचित् सद्धतावप्यतिव्याप्ति योजयति सद्ध तुतादशायामिति । विरोधिपरामशद्वयशून्यतादशायामित्यर्थः । धूमादिवृत्तित्वादिति । तादृशप्रकारतावच्छेदकस्वरूपसम्बन्धेन वढयभावस्म समवायसम्बन्धेन वह्नयभावव्याप्यस्य धूमत्वादेः धूमादी वर्तमानत्वादित्यर्थः । ___ इदमुपलक्षणम् , यत्सम्बन्धावच्छिन्नेत्यादिना दुष्टत्वनिर्वचने धमत्ववान् पर्वतो पह्निमान् धूमादित्यादौ धूमादेर्दुष्टत्वं न स्यात् तादृशप्रकारतावच्छेदकस्वरूपसम्बन्धेन धमत्वाभावस्य धूमेऽसत्त्वादित्यपि द्रष्टव्यम्। प्रकारान्तरानुसरणे तु अन्यत्राप्यव्यासिरतिव्याप्तिर्वा न सम्भवतीति ध्येयम् । कस्यचिन्मतं दूषयितुमपन्यस्यति यत्त्विति । ज्ञानसम्बन्धेन - स्वविषयकज्ञान "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308