Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini
View full book text
________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २८३
* दीधितिः * तत्राप्रसिद्ध मिति चेत , तत्किं सर्वत्र सत्प्रतिपक्षे साध्याभावव्याप्यवान्पक्षः प्रसिद्धः । यथाकथश्चित्सम्बन्धेन तद्वत्त्वञ्चातिप्रसक्तं, धूमादेरपि ज्ञानरूपेण तदाश्रयत्वादिना वा सम्बन्धेन व्यभिचारा. दिमत्त्वात् ।
* गादाधरी तत्र = बाधभ्रमस्थले, सत्प्रतिपक्षस्थले सर्वत्र ताशविशिष्टं प्रसिद्धमित्यभिमानः । भ्रमं निराकरोति तक्किमिति । पक्षावृत्तिसाध्यकसत्प्रतिपक्षे साध्याभावव्याप्यविशिष्टपक्षस्य प्रसिद्धत्वात् सर्वत्रेति । सत्प्रतिपक्षो सत्प्रतिपक्षतया भवन्मतसिद्धे इत्यर्थः । प्रसिद्ध इति । तथाचानतिरिक्तवृत्तित्वरूपमवच्छेदकत्वं विवक्षितुमशक्यमिति दर्शितातिव्याप्तिर्दुबारैवेति भावः । तद्वत्त्वघटकसम्बन्धं वितापि दूषयति यथाकथचिदिति। अतिप्रसक्तम् = सद्धेतुसाधारणम् , तथाच पर्वतादौ वह्नयादिमत्त्वे साध्ये धूमादौ दुष्टताव्यवहारापत्तिरिति भावः। ताहशसम्बन्धस्य धूमादिरूपसद्ध तुसा. धारणत्वं स्फुठयति धूमादेरिति । ज्ञानरूपेण = स्वविषयकज्ञानविषयत्वेन तदाश्रयत्वादिना, आदिना एककालीनत्वादिपरिग्रहः, व्यभिचारादि. मत्त्वात् = वह्नयभावववृत्तित्वसत्त्वात् ।
ननु यादृशसम्बन्धावच्छिन्नयतप्रकारतानिरूपितधम्मिविशेष्यताशालित्वेन ज्ञानस्य प्रतिबन्धकत्वं तेन सम्बन्धेन तद्वत्त्वमेव दुष्टत्वमिति वा
® चन्द्रकला सर्वत्रेत्यभिधानप्रयोजनमाह पक्षावृत्तीति । हृदादिपक्षकवयादिसाध्यकसत्प्रतिपक्षे इत्यर्थः ।
सत्प्रतिपक्षितसद्धेतौ दुष्टत्वानुपपत्तिभयेनैवानतिरिक्तवृत्तित्वरूपप्रतिबन्धकताघच्छेदकताया निवेशाऽसम्भवादाह तथाचेनि । दर्शितातिव्याप्तिः = पर्वतो वह्निमान् धमादित्यादौ बाघभ्रमीयकेवलवहथभावादिमत्वमादाय धूमादावतिव्यातिः।
दूषयतीति । तद्वस्वघटकसम्बन्धोऽपि वक्तुमशक्य इत्याशयः। यथाकथञ्चित्सम्बन्धेन तद्वत्त्वाभिधाने अतिव्याप्तिमुपपादयति तथाचेति । तथा च स्वविषयज्ञानविषयत्वसम्बन्धेन आश्रयत्वसम्बन्धेन एककालीनत्वसम्बन्धेन वा वह्नयभावववृत्तित्वादेः धमादिसद्धेतौ सत्त्वात् तस्यापि दुष्टत्वं भवन्मते दुरिमितिभावः ।
वादशसम्बन्धेत्यादिदीधितिमवतारयति नन्विति । तेन सम्बन्धेन = ताहश
"Aho Shrutgyanam'

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308