Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini
View full book text
________________
चन्द्रकला-कलाविलासाख्य टीकाद्वयोपेतम्
* दीधितिः *
साध्याभाववत्पक्षविषयकत्वेन
साध्या
तदपि तुच्छम्, भाववत्पक्षज्ञानप्रमात्वविषयकत्वेन वा ज्ञानस्य प्रतिबन्धकत्वं तस्य च साध्यवत्यपि पक्ष सम्भवादतिव्याप्तेः ।
२८१
* गादाधरी
तत्रापि तादृशव्यापत्यादिप्रकृतहेतुविषयक परमेश्वरज्ञानादिकमादाय तद्वत्तोपपत्तेः । साध्याभाववत् पक्षविषयकत्वेन = साध्याभावप्रकारकपक्षावगाहित्वेन । साध्याभाववत्पक्षज्ञानेति = साध्याभावप्रकारकपक्षज्ञानांशे प्रमात्यविषयकत्वे नेत्यर्थः । मतभेदेन विकल्पः, तस्य = तादृशज्ञानस्य, साध्यवत्यपि पक्षे = पक्षे साध्यवत्यपि सति, पक्षस्य साध्यवत्त्वे सत्यपीति यावत् ।
पर्व्वतो वह्निमान् धूमादित्यादौ भ्रमात्मकवाघादिज्ञाननिष्ठप्रतिबन्धकतावच्छेदकविषयितानिरूप कवह्नयभावादेः स्वविषयकज्ञानविषयत्वादिसम्बन्धेन वैशिष्ट्यस्य हेतौ सत्त्वादिति भावः ।
* चन्द्रकला *
जलवांश्च पर्वत इतिज्ञानं समूहालम्बनानात्मकमेव जातं तत्र हेतोर्दुष्टता न स्यात् परस्परानुमितिविरोधिव्यासया दिविषयतायाः परस्परहेतावसत्त्वादिति न चैवमित्यादि - नाऽशंक्य समाधत्ते तत्रापीति । क्रमिकपरामर्शद्वयस्थलेऽपीत्यर्थः ।
1
तद्वत्त्वोपपत्तेरिति । तादृशक्रमिकपरामर्शस्थले तत्पुरुषस्य विरोधिव्याप्तयादिविषयक समूहालम्बनज्ञानोत्यादेऽपि वह्निव्याप्तिप्रकारकधूमविशेष्य कवहयभावव्याप्तिप्रकारकजलत्वविशेष्य कपरमेश्वरीयविरोधिव्याप्तयादिविषयकज्ञानविषयतायाः प्रकृतहेतुनिष्ठतया तादृश विषयतात्मक सम्बन्धेन विरोधिव्याप्तयादिमत्त्वस्य प्रकृतहेतावनपायान्न क्रमिकपरामर्शस्थलेऽपि सत्प्रतिपक्षतारूपदुष्टत्वानुपपत्तिरित्यभिप्रायः । तदपि तुच्छमित्यादिदीधितिं व्याचष्टे साध्याभावप्रकारेणेति । साध्याभावत्वावच्छिन्नप्रकारताकपक्षविषयताकत्वेनेत्यर्थः । मतभेदेन = मिश्रादिमतभेदेन । तादृशज्ञानस्य = साध्याभाववत्पक्षावगाहिज्ञानस्य ।
श्रतिव्यातिं संगमयितुं भावमाह पर्वत इति । यद्विषयकत्वं प्रकृतानुमितिप्रतिबन्धकतानिरूपितस्वरूप सम्बन्धरूपावच्छेदकतावत् तद्वत्त्वं दुष्टत्वमित्युक्तौ हृदो वह्निमानित्यादौ वह भावादिविषययितायाः तादृशप्रतिबन्धकतावच्छेदकतया तद्विषयकहेतुविषयक समूहालम्बनज्ञानविषयतात्मकसम्बन्धेन वह्नयाद्यभावादिमत्त्वस्य प्रकृत
"Aho Shrutgyanam"

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308