Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini
View full book text
________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २७९
* दीधितिः * यदपि यद्विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वं तद्वत्त्वमेव दुष्टत्वं वाच्यम् , सत्प्रतिपक्षे च विरोधिव्याप्त्यादिकमेव तथा,
गादाधरी तादिसद्ध तौ विरोधिपरामर्शदशायां भवन्मतसिद्धं सत्प्रतिपक्षितत्वं नोपपद्यत इति भावः । __ सत्प्रतिपक्षिते सद्धेतौ विरोधिव्याप्यवत्पक्षस्याप्रसिद्धावपि प्रतिबन्धकीभूतभ्रमविपयप्रसिद्धविरोधिव्याप्त्यादिरेव दोष इति मतं दूषयति यदपोति । यद्विषयकत्वेनेति तृतीयार्थः स्वरूपसम्बन्धरूपावच्छेदकरवं न स्वनतिरिक्तवृत्तित्वम्, तथासति विरोधिव्याप्त्यादेर्दोषत्वानुपपत्तः । प्रतिबन्धकतायां ज्ञाननिष्ठत्वविशेषणं कामिनीजिज्ञासादिनिष्ठप्रतिबन्ध. कतावच्छेदकधर्मेऽतिप्रसङ्गवारणाय ।
चन्द्रकला मनु वाधादिभ्रमकालीनत्वमादायापि हेतौ दुष्टस्वमिष्टमेवेत्वत प्राह वाधादे. रिति । नोपपद्यत इति । अतीतादिसद्धतौ विरोधिकोट्यनुमितिसामग्रीकालीनत्वस्य विरहात् हेतोरेवातीतत्वादिति भावः ।
सद्धतौ- तादृशशब्दत्वादौ । विरोधीति नित्यत्वव्याप्यासमवेतद्रव्यत्वादिमछब्दस्याऽप्रसिद्धावपीत्ययः । दोषत्वानुपपत्तरिति । विरोधिव्याप्तिविषयकत्वस्य हेत्वाद्यविषयकेऽपि ज्ञाने वर्तमानतया तत्राऽनुमितिप्रतिबन्धकत्वविरहेण विरोधिव्यात्यादिविषयकत्वस्यानुमितिप्रतिबन्धकतातिरिक्तवृत्तिस्वात् विरोधिव्याप्त्यादेयंत्पदेनोपादानाऽसम्भवादिति तु तत्त्वम् ।
विरोधिव्याप्त्यादेवि पक्षधर्मताया अपि अनुमितिप्रतिबन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदकतावत्वात् पक्षधमतापरिग्रहाय व्याप्त्यादिरेवेत्यत्रादिपदम् । एतच्चाने स्फुटीभविष्यति ।
ननु यद्विषयकत्वेनानुमितिप्रतिबन्धकस्वमित्युक्तावेव सामञ्जस्ये शानस्य इत्यत्र ज्ञानपदं व्यर्थमित्यत अाह ज्ञाननिष्ठत्वेति । निश्चयनिष्ठत्वेत्यर्थकम् । ___ कामिनीज्ञानान्यज्ञानमात्र प्रत्येव कामिनीजिज्ञासायाः प्रतिबन्धकतया ज्ञानपदामुपादाने कामिनीजिज्ञासानिष्ठा या प्रकृतानुमितिप्रतिबन्धकता तदधच्छेदकतायाः फामिनीत्वे कामिनीज्ञानत्वे वा सत्त्वेन तत्र दोषलक्षणस्वातिव्याप्तिः, ताहशधर्मवति च दुष्टलक्षणस्वातिव्यातिरिस्याह कामिनीति ।
"Aho Shrutgyanam"

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308