Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 296
________________ अनुमानगादाधय सामान्यनिरुक्तिप्रकरणम् * दीधितिः * तद्वत्वमपि हेतोस्तज्ज्ञानरूपसम्बन्धेन तस्य समूहालम्बनरूपतया हेतुद्वयविषयकत्वादिति । ༢=。 * गादाधरी ननु विरोधिको टिव्याप्यत्वस्य पर्व्वतो वह्निमान् धूमात् पर्व्वतो न वह्निमान् जलत्वादित्यादौ प्रतिबन्धकीभूतज्ञानविषयसमवायादिसम्बन्धावच्छि पक्षधर्म्मतायाश्च प्रकृते हेतावभावात् कथं तस्य दुष्टत्वमत आह तद्वत्त्वमपीति । विरोधिव्याप्त्यादिमत्वमपीत्यर्थः । तज्ज्ञानरूपेति = स्वविषयकज्ञानविषयतात्मकेत्यर्थः । सम्बन्धविशेषस्याविवक्षितत्वादिति भावः । तादृशसम्बन्धवत्तां प्रकृतहेतावुपपादयति तस्येति । विरोधिव्याप्त्यादिज्ञानस्येत्यर्थः । समूहालम्बनरूपतयेति । न चैवं क्रमिकपरामर्शद्वयस्थले सत्प्रतिपक्षतानुपपत्तिरिति वाच्यम्, * चन्द्रकला * तद्वत्त्वमपीत्या देवतरणमाह नन्विति । तथा च पर्वतो वह्निमान् धूमात् पर्वती वह्न्यभाववान् जलत्वादित्यादौ धूमादेः जलत्वादेश्च सत्प्रतिपचितत्वं न स्यात् श्रनुमितिप्रतिबन्धकतावच्छेदकत्वविरोधिवह्निव्याप्यत्वस्य जलले वह्नयभावव्याप्यत्वस्य च धूमे विरहात्, संयोगसम्बन्धावच्छिन्नपर्वतवृत्तितात्मक पक्षधर्मतायाः समवायसम्बन्धावच्छिन्नपर्वतवृत्तितात्मक पक्षधर्मतायाश्च परस्परानुमितिप्रतिबन्धकतावच्छेदकविषयताश्रवत्वेऽपि तादृशसमवायावच्छिन्नपर्वतवृत्तिताया धूमे तादृशसंयोगावच्छिन्नपर्वतवृत्तितायाश्च जलत्वेऽसत्त्वात् सम्बन्धान्तरावच्छिन्नपर्वतवृत्तितायाश्च परस्परानुमित्यविरोधित्वादित्याशयेन दीधितिकार श्राह तद्वत्त्वमपोतीति भावः । स्वविषयकेति । स्वं विरोधिव्याप्तयादिः तद्विषयकं यत् प्रकृतहेतुविषयकं समूहालम्बनज्ञानं तद्विषयतात्मक सम्बन्धेनेत्यर्थः । सम्बन्धविशेषस्येति । संयोगस्वरूपादेरित्यर्थः । तथाच वह्निव्याप्यधूमवान् वहयभावव्याप्यजलत्ववांश्च पर्वत इत्याकारकसमूहालम्बनविरोधिव्याप्तिविषयक ज्ञानविषयताया घूमे जलवे च सत्त्वेन तादृशविषयतात्मक सम्बन्धेन विरोधिव्याप्तिसम्बन्धिताया धूमे जलवे चानपायातोर्दुष्टत्वं निर्विवादमित्याशयः । ननु यत्र प्रथमं वह्निव्याप्यधूमवान् पर्वत इतिज्ञानं ततो वह्नयभावव्याप्य - "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308