Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini
View full book text
________________
२७८ अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम्
* दीधितिःयथा च भ्रमप्रमासाधारणविरोधिपरामर्शसत्वे नानुमितिस्तथा तथाविधवाधादिग्रहपीत्यतिप्रसङ्गः । न चातीतादौ लिङ्गे विरोधिपरामर्शकालीनत्वमपि।
गादाधरी अप्रामाण्यग्रहाभाववैशिष्ट्यस्य दृष्टान्तविधया प्रतिबन्धकतावच्छेदकत्वश्च दर्शितम् ।
नन्वस्तु विरोधिपरामर्शमात्रं प्रतिबन्धकं तथापि तद्धटितविरोधिसामग्रीकालीनज्ञानस्य फलानुत्पादनियतत्वात्तादृशसामग्रीकालीनत्वस्य निरुक्तप्रतिबन्धकतावच्छेदकत्वं दुरपह्नवमेव, एवंविरोधितथाविधपरामर्शकालीनत्वमादायापि दशाविशेषे सत्प्रतिपक्षितस्य हेतोर्दुष्टत्वमुपपद्यत एवेत्यतो विरोधिपरामर्शकालीनत्वसमशीलबाधादिभ्रमकालीनत्वमादाय सद्धतावतिप्रसङ्गमाह यथाचेति । तथाविधेति=विरोधिभ्रमप्रमासाधारणेत्यर्थः । अपीत्यनन्तरं नानुमितिरित्यनुषज्यते, तथाच वाशबाधादिकालीनत्वमपि निरुक्तप्रतिबन्धकतावच्छेदकत्ववद्भवत्येवेत्यतोऽतिप्रसङ्ग इति । बाधादेरनित्यदोषतायाः केनाप्यनुपगमे न इष्टापत्त्यनवकाशादिति भावः । विरोधिपरामर्शकालीनत्वमादाय सर्वत्र सत्प्रतिपक्षिते दुष्टत्वं नोपपादयितुं शक्यत इत्याह न चेति । नहीत्यर्थः। अतीतादाविति । तथाचाती
* चन्द्रकला - भावव्याप्यवत्तापरामर्श अप्रामाण्यग्रहानन्तरमेव वहयाद्यनुमितिरित्यर्थः । दृष्टान्तविधयेति । अप्रामाण्यग्रहाभावस्य प्रतिबन्धकतावच्छेदकत्वं सर्ववादिसिद्धमित्याशयः । फलानुत्पादनियतत्वात् = फलानुत्पत्तिव्याप्यत्वात् । सद्धतावतिप्रसंगमाहेति । भ्रमप्रमासाधारणविरोधिकोटिपरामर्शघटितसामग्रीकालोनत्वेन परामर्शस्य स्वसाध्यानुमितिप्रतिबन्धकस्वाभ्युपगमे पर्वतो पह्निमान् धूमादित्यादावपि धूमस्य दुष्टस्वापत्तिः, तुल्ययुक्त्वा वह्नयभाववत्पर्वतरूपवाघभ्रमकालोनत्वेनापि वहिव्याप्यवत्तापरामर्शस्य वह्नयाद्यनुमितिप्रतिबन्धकताया आवश्यकतया ताहशभ्रमकालीनत्वस्य धूमादिनिष्ठत्वे वाधकाभाषादित्यभिप्रायः ।
"Aho Shrutgyanam"

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308