Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 293
________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपैतम् २७७ * दीधितिः * यदि च तत्सत्त्वेऽपि तत्साध्ये बाधावतारे नानु मितिप्रतिबन्धः प्रामाणिकस्तदा अप्रामाण्यग्रहाभावस्येव तदभावस्यापि वैशिष्ट्यन्तन निवेश्यताम् , ® गादाधरी ननु यत्र वह्नयभावव्याप्यवत्तापरामर्शः वह्नयभावाभाववान् पक्ष इति बाधनिश्चयश्च वर्त्तते तत्र वह्निव्याप्यवत्ताज्ञानेन वह्नयनुमितिजन्यत इत्यनुभवसिद्धम् , विरोधिपरामर्शमात्रस्य प्रतिबन्धकत्वे च तन्नोपपद्यते इत्यत आह यदि वेति । तत्सत्त्वेऽपि = विरोधिपरामर्शसत्त्वेऽपि, तत्साध्ये बाधावतारे = तादृशपरामर्शानुमेयविरोधिकोटेः पक्षेऽभावनिश्चयदशायाम् , नानुमितिप्रतिबन्धः=न प्रकृतसाध्यानुमित्यनुत्पादः । अप्रामाण्यग्रहाभावस्ये. त्यनन्तरं वैशिष्ट्यमित्यनुषज्यते । तदभावस्य = विरोधिकोटिविरहनिश्चयाभावस्य, तत्र-विरोधिपरामर्शप्रतिबन्धकतावच्छेदकगर्भे । निवेश्यतामिति । अत्र विपरीतकोटिव्याप्यवत्तापरामर्शदशायां तत्कोटिविरहनिश्चयसत्त्वे तत्परामर्श भ्रमत्वग्रहानन्तरमेवानुमितिनं त्वन्यथेति भ्रमत्वग्रहाभाववैशिष्ट्यनिवेशेनैवोपपत्तौ तादृशबाधग्रहाभाववैशिष्ट्यनिवेशो व्यर्थ इत्यनिर्भरसूचनाय यदि चेत्युक्तम् । ॐ चन्द्रकला 8 इत्यभिप्रायः। किन्वित्यादिदीधितिमवतारयति नन्विति । यत्र = यादृशस्थले। अनुभवसिद्धमिति । वढयभावव्याप्यवत्तापरामर्शस्य स्वसाध्यवाधेन हीनबलत्वादिति तात्पर्यम् । वढयभावव्याप्यवान् वहिव्याप्याश्च पर्वत इत्याकारकपरामर्शद्वयकाले वह्नयभावाभाववानिति वह्नयभाववाधनिश्चयसत्वेऽपि वह्नयनुमित्युत्पादस्य सविवादतवा दीधितौ यदिचेत्युक्तमित्यवधेयम् । पक्षे = पर्वतादौ । अभावेति । वहृयाद्यभावाभावनिश्चय इत्यर्थः। परामर्शप्रतिबन्धकतावच्छेदकगर्भ इति । अप्रामाण्यज्ञानाभावविशिष्टतदभावव्याप्यवत्तानिश्चयस्य यथा तत्प्रकारकबुद्धिप्रतिबन्धकत्वं तथा स्वसाध्यवाधनिश्चयाभावविशिष्टस्यापि तस्य तत्प्रतिबन्धकत्वं कल्पनीयमिति तादृशवाधनिश्चयाभावस्यापि प्रतिबन्धकतावच्छेदकत्वमावश्यकमित्यर्थः । यदीत्याद्यभिधानप्रयोजनमाह अत्रेति । दीधितिग्रन्थे इत्यर्थः। विपरीतेति। वहयाद्यभावव्याप्यवत्तापरामर्शदशायामित्यर्थः। तत्कोटोति । वह्वयाद्यभावाभावनिश्चयसत्त्वे इत्यर्थः। तत्परामर्श इति । वहयाद्य. "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308