Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini
View full book text
________________
चन्द्रकला कलाविलासाल्यटीकायोपेतम्
* दीधितिः
अथ यद्धर्म्मविशिष्टज्ञाने सत्यवश्यमनुमितिप्रतिबन्धः तदेवात्र प्रतिबन्धकतावच्छेदकमुक्तम् भवति च प्रतिबन्धकीभूतविरोधिसाम
,
* गादाधरी *
२७५
कानुत्पत्तिव्याप्यतावच्छेदकत्वरूपम् प्रतिबन्धकतावच्छेदकत्वमेवात्र विवक्षितं न तु कारणीभूताभावप्रतियोगितावच्छेदकत्वरूपम्, तच्च विरोधि - सामग्रीकालीनत्वेऽप्यक्षतमेवेत्याह अथेत्यादिना । यद्धर्मेति = यादृशधर्मविशिष्टनिश्चयाव्यवहितोत्तरक्षणत्वव्यापकोऽनुमित्यनुत्पादस्ता दृशरूप परमेवेत्यर्थः । निश्चयत्वनिवेशात् बाधादिविषयक संशयसंस्काराव्यवहितोत्तरक्षणे कदाचिदनुमित्युत्पादेऽपि न क्षतिः । अत्र = एतल्लक्षणे, प्रतिबन्धकता - वच्छेदकमुक्तम् = प्रतिबन्धकतावच्छेदकपदेन विवक्षितम् । भवति चेति | विरोधिकोट्यनुमितिसामग्य्याः प्रतिबन्धकत्वकथनं प्रतिबन्धकसमवहिता
* चन्द्रकला
विरोधिसामग्रीकालीनत्वस्य प्रकृतानुमितिप्रतिबन्धकतातिरिक्तवृत्तित्वं सुतरामेव निर्विवाद मित्यसाधारणादौ दश विशेषेऽपि भवन्मते लक्षणसमन्वयो न सम्भवतीति हृदयम् । विरोधिकोट्यनुमितिसामग्री कालीनत्वविशिष्टपरामर्शादेरवश्यं स्वसाध्यानुमितिप्रतिबन्धकत्वं वक्तव्यम्, तादृशविशिष्टपरामर्शसत्त्वे तादृशानुमितेरनुदयात् याहशधर्मविशिष्टनिश्वयाव्यवहितोत्तरक्षणत्वावच्छेदेनानुमित्यनुत्पत्तिस्तादृशधर्मस्वापि प्रति•
बन्धकतावच्छेदकत्वात् ।
नचैवं मणिसमवहितत्वेनापि वहयादेः दाहप्रतिबन्धकत्वापत्तिरिति वाच्यम्, इष्टत्वादित्याशयवतां दीधितिकृताम् अथेत्यादिशंकाग्रन्थं व्याख्यातुमुपक्रमते कार्येति । तच्च = कार्यानुत्पादव्याप्यतावच्छेदकत्वञ्च । यादृशेति । तथाचैतन्मते हृदो वह्निमानित्याद्यनुमितिप्रतिबन्धकतावच्छेदकत्वं वह्न्यभावविशिष्टहृदादेरेव विषयितासम्बन्धेन तद्विशिष्टनिश्चयाव्यवहितोत्तरक्षणत्व व्यापकतायास्तादृशानुमित्यनुत्पादे - क्षतत्वात् । . एवञ्च वह्नयभावविशिष्टहदादिकमादायैव तादृशस्थले हेतोर्दुष्टत्वमित्याशयः । निश्चयपदव्यावृत्तिमाह निश्चयत्वेति । नक्षतिः न सम्भवः । व्यापकत्वनिवेशात् पर्वतो वह्निमान् धूमादित्यादौ न पूर्वोक्तयुक्त्वा पाषाणमयत्ववत्सर्वतादिकमादाय धूमस्य दुष्टत्वापत्तिरितिध्येयम् ।
विरोधिकोट्यनुमितिसामग्रीकालीनत्वस्य
दोघितिकृदुक्तं व्यवस्थापयति विरोधीति !
"Aho Shrutgyanam"
यथोक्तप्रतिबन्धकतावच्छेदकत्वं

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308