Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini
View full book text
________________
अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
● दीधितिः ●
न स्वसाध्यकानुमितेः प्रतिबन्धको मणिसमवहितो वह्निरिव दाहस्य । * गादाधरी
न स्वसाध्यकानुमितेः प्रतिबन्धक इति = न स्वजन्यानुमितिप्रतिबन्धक इत्यर्थः । कारणत्वप्रतिबन्धकत्वयो रेकत्रानभ्युपगमादिति हृदयम् । विभिन्नरूपेण तदुभयस्यैकत्रोपगमे प्रतिबन्धिसूचनायाह मणीति । न प्रतिबन्धक इत्यनुषज्यते । तथाच विरोधि कोट्यनुमितिसामग्रीकालीनत्वेन परामर्शस्य स्वसाध्य कानुमितिप्रतिवन्धकत्वे मणिसमवहितत्वेन वह्नपादीनामपि दाहप्रतिबन्धकत्वापत्तिः । मणिसमवहितत्वापेक्षया लाघवेन मणित्वेनैत्र प्रतिबन्धकता कल्प्यते इति चेत्, तर्हि विरोधिसामग्रीकालीनत्वापेक्षया लाघवात् तादृशसामग्रीत्वेन विरोधिपरामर्शत्वेनैव वा प्रतिबन्धकत्वं प्रकृतेऽपि कल्पयितुमुचितमिति कथं विरोधिसामग्रीकालीनत्वमादाय लक्षणं सङ्गमनीयं तस्य प्रतिबन्धकतातिरिक्तवृत्तित्वा दिति भावः ।
२७४
* चन्द्रकला *
सर्वानुभवविरुद्धमित्याह कारणत्वेति । एकत्र तयोः समावेशाभ्युपगमे तु सुन्दोपसुन्दन्यायेन परस्परं व्याहन्येतेति भावः ।
नन्वेकरूपेण कारणत्वप्रतिबन्धकत्वयो रेवानभ्युपगमः परामर्शत्वेन स्वसाध्यानुमितिकारणतायाः विरोधिकोट्यनुमितिसामग्रीकालीनत्वेन तु तादृशानुमिति - प्रतिबन्धकतायास्तत्राभ्युपगमे न कोऽपि दोष इत्येवम् श्राशंक्य मणीत्यादिदीषितिग्रन्थमवतारयति विभिन्नेति ।
परामर्शत्वेन कारणतायाः विरोधिसामग्रीकालीनत्वेन तत्रैव परामर्श प्रतिबन्धकतायाः स्वीकारे दोषमाह तथाचेति । विभिन्नरूपेण कारणत्वप्रतिबन्धकत्वयोरभ्युपगमे चेत्यर्थः ।
दाहप्रतिबन्धकत्वापत्तिरिति । तथाच वह्नित्वेन दाहकारणत्वं मणिसमवहितत्वेन च वह्नौ दाहप्रतिबन्धकत्वं यथा न स्वीकरणीयं तथा विरोधिसामग्रीकालीनत्वेनापि स्वसाध्यानुमितिजनकीभूतस्य परामर्शस्य तादृशानुमितिप्रतिबन्धकत्वं न कल्पयितुं शक्यमिति भावः ।
ननु मणित्वापेक्षया मणिसमवहितत्वस्य गुरुतयैव न दाहप्रतिबन्धकतावच्छेदकत्वं युक्तमित्याशंकां निराकरोति इति चेदिति । लाघवं प्रदर्शयति । तादृशसामग्रीत्वेनेति । विरोधिकोट्यनुमितिसामग्रीत्वे नेलार्थः । इति तु मिश्रमतम् ।
दीषितिकारमतमाह विरोधीति । तस्य = विरोधिसामग्रीकालीनत्वस्य । तथाच
"Aho Shrutgyanam"

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308