Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini
View full book text
________________
चन्द्रकला - कलाविलासाख्य टीकाद्वयोपेतम्
* दीधितिः *
कत्वात् साधारण्यादि विषयकत्वस्य ज्ञाननिष्ठस्यैव प्रतिबन्धकतावच्छेदकत्वात् । सत्तादिसाध्यके ज्ञाने अतिप्रसङ्गाच्च यथाकथञ्चित् तद्वत्त्वस्य चातिप्रसञ्जकत्वात्, विरोधिसामग्रीसमवहितोऽपि च लिङ्गपरामर्शो * गादाधरी *
दित्यतोऽन्यत्रातिप्रसङ्गमाह साधारण्यादिविषयकत्वस्येति । ज्ञाननिष्ठस्य ज्ञानवृत्तित्वविशिष्टस्य । सत्तादीति । सत्तावान् ज्ञानादित्यादौ ज्ञानहेतुकसत्ताद्यनुमितिप्रतिबन्धकतावच्छेदकं ज्ञानांशे सत्ताद्यभाववद्वृत्तित्वावगाहित्वमादाय सत्वे साध्ये ज्ञानं दुष्टमित्यादिव्यवहारापत्तेरित्यर्थः । येन केनापि सम्बन्धेन तद्वत्त्वं विवक्षणीयमित्यपि दूषयति यथाकथविदिति । अतिप्रसञ्जकत्वादिति । उक्तधर्ममादाय सत्तादिसाध्यकज्ञाने धूमाद्यंशे यद्वहयभावववृत्तित्वावगाहित्वम्, एकज्ञानविषयत्वादिसम्बन्धेन तद्ववमादाय वह्रयादिसाध्यकधूमादावपि दुष्टत्वव्यवहारापत्त रित्यर्थः । सत्प्रतिपक्षस्थले विरोधि सामग्री समकालीनत्वेन प्रतिबन्धकतामादाय यल्लक्षणसमुपपादितं तद् दूषयति विरोधिसामग्रीति ।
* चन्द्रकला *
२७३
=
वह्न्यभाववद्वृत्तिस्वविशिष्टद्रव्यत्वरूपव्यभिचारदोषवत्त्वस्य श्राश्रयतया एकज्ञानविषयतथा वा धूमादौ सत्त्वात् वह्निसाघने घूमो दुष्ट इतिव्यवहारापत्तेरशक्यवारयत्वादित्यर्थः ।
सत्तासाध्यकज्ञानरूपसद्धेतावतिव्यातिमुपपादयति ज्ञानांशे इत्यादि । ज्ञानं दुष्टमिति । ज्ञानहेतुकानुमितिप्रतिबन्धकतावच्छेदकं यत् ज्ञाननिष्ठं सत्ताऽभाववट्टत्तित्वविषयकत्वं तस्य ज्ञान एवानपायादिति भावः ।
तद्वत्त्वम् = तादृशानुमितिप्रतिबन्धकतावच्छेदकवत्वम् । उक्तधर्मेति । ज्ञाननिष्ठसत्ताभाववद्वृत्तित्व विषयकत्वरूपधर्ममादायेत्यर्थः ।
दुष्टत्वव्यवहारापत्तेरिति । वह्नयभाववद्वृत्तित्वं धूमश्चेत्याकारकैक समूहालम्बनविषयताया धूमे सत्वात् तेन सम्बन्धेन धूमाद्यंशे वहयभाववद्वृत्तित्वावात्वस्यापि धूमे वर्त्तमानत्वादित्याशयः ।
" Aho Shrutgyanam"
विरोधिकोट्यनुमितिसामग्रीकालीनत्वेन परामर्शादेः प्रतिबन्धकतानिराकरणपरं स्वसाध्येति दीधितिग्रन्थं व्याचष्टे स्वजन्येति । तादृशसामग्रीकालीनपरामर्शजन्यैत्यथकम् । एकस्मिन्नेव परामर्शे स्वसाध्यानुमितिकारणत्वं तत्प्रतिबन्धकत्वञ्च

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308