Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini
View full book text
________________
२७१
चन्द्रकला-कलाविलासाख्यटोकाद्वयोपैतम् २७१
* दीधितिः - तन्न, तद्वत्त्वं हि हेतो भेदेन, बाधे तदभावात् । अत एव नाश्रयतया,
___ * गादाधरी * तत्कालीनत्वस्याधेयभेदेन भेदानभ्युपगमात् , अभ्युपगमे वा आधेयतासम्बन्धेन तत्कालस्यावच्छेदकतया तमादायैव लक्षणसमन्वयादिति भावः । नाभेदेनेति । विवक्षितुं शक्यमिति शेषः ।
साध्याभावववृत्तित्वादिविशिष्टसाधनरूपदोषस्याभेदसम्बन्धेन हेतौ सत्वात्तेन सम्बन्धेन तद्वत्त्वविवक्षायां न व्यभिचारादावप्रसक्तिरतः बाधे तदभावादितिः वह्नयभाववदुहृदादिरूपबाधे धूमादिरूपहेत्वमेदासत्वादित्यर्थः तथा च तत्राव्याप्तिरिति भावः अत एवम्बाधेऽव्याप्तेरेव,नाश्रयतया तद्वत्वम्
* चन्द्रकला * भेदानभ्युपगमादिति । तथा च परामर्शरूपज्ञाननिष्ठतादृशसामग्रीकालनिरूपिताधेयतातः शब्दत्वादिनिष्ठतादृशाधेयताया भेदविरहात् तादृशसामग्रीकालनिरूपिताधेयत्वरूपताहशसामग्रोकालीनत्वमादायव शब्दत्वादिसद्धतौ दशाविशेषे लक्षणसमन्वय इति भावः।
ननु तत्कालनिरूपिताधेयताया श्राधेयव्यक्तिभेदेन भेदानभ्युपगमे परामर्शादिनिष्ठविरोध्यनुमितिसामग्रोकालोनत्ववत् शब्दत्वमित्यपि प्रमाप्रतीतिः स्यादतोऽवच्छेदकमेदेनाधेयताभेदोऽवश्यं स्वीकरणीय इत्यत आह अभ्युपगमे वेति । तत्कालनिरूपिताधेयत्वस्येत्यादिः।
अवच्छेदकतयेति । तथाच प्राधेयतासम्बन्धन विरोधिकोट्यनुमितिसामग्रीकालववेनैव परामदेरनुमितिप्रतिबन्ध कतया तादृशकालस्य चाधेयतासम्बन्धेन परामशं इव शब्दत्वादावप्यक्षतत्वात् तत्र लक्षणसमन्वय इति तु परमार्थः । तमादायैव = तादृशसामग्रीकालमादायैव । लक्षणेति । शब्दत्वादिसद्धतावित्यादिः
ज्ञाननिष्ठानुमितिप्रतिबन्धकतावच्छेदकलां यदि हेतावभेदेन तदा धूमवान् वह्नरित्यादौ धूमाभावववृत्तित्वविशिष्टवह्निरूपतादृशप्रतिबन्धकतावच्छेदकव्यभिचाराभेदस्य वह्निरूपहेतौ सत्वेन तत्र लक्षणसमन्वयसम्भवेऽपि हृदो वह्निमान् धूमादित्यादौ बाधिते धूमादिहेतावव्यातिः, वह्नयभावविशिष्टहदरूपबाधाभेदस्य धूमादौ विरहात् ।
निरुक्तबाधितहेतावव्यासिभयेन आश्रयतासम्बन्धेनापि तद्वत्वं वक्तुमशक्यम् , धढ़यभावविशिष्टहृदाश्रयताया धूमेऽभावादित्याह साध्याभावेति ।
ननु समूहालम्बनेकज्ञानविषयत्वसम्बन्धेन वह्नयभावविशिष्टहृदाश्रयताया धूमे
"Aho Shrutgyanam"

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308