Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 285
________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २६६ • दीधितिः - तच्च द्विविधम् , विषयरूपं साधारण्यादि, __ * गादाधरी * तत्पदमुभयत्र तद्रूपविशिष्टपरम् । लक्षणार्थ = व्युत्क्रमेण लक्षणयोरर्थः । नन्वेतातैव कथं दर्शितसत्प्रतिपक्षादौ लक्षणसमन्वयः, तत्र प्रतिबन्धकतावच्छेदकीभूतविशिष्टविषयकत्वस्याप्रसिद्धः, कथं वा व्यभिचारादिकमादाय सव्यभिचारादावेव लक्षणगमनं व्यभिचारादिविषयकत्वस्यैवप्रतिबन्धकतावच्छेदकतया व्यभिचारदेरतथात्वादित्यत आह तच्चेति । ताशप्रतिवन्धकतावच्छेदकचेत्यर्थः। * चन्द्रकला * वह्नयभाव इत्याकारकनिश्चयेऽपि वर्तमानतया तत्रानुमितिप्रतिबन्धकताविरहेण वढ्यभावदेविषयितासम्बन्धेन प्रतिबन्धकतातिरिक्तवृत्तित्वान्न तमादाय धूमस्य दुष्टत्वं सम्भवतीत्यभिप्रायः । यत्पदस्य यद्पावच्छिन्नपरत्वे अग्रिमतत्पदस्यापि तद्रूपावच्छिन्नपरताया अावश्यकत्वादाह तत्पदमिति । तद्वत्वमित्यत्र तत्प्रकारकेत्यत्र च. तत्पदमित्यर्थः । यत्पदस्याखण्डयद्व्यक्तिपरत्वे तु बाधायेकदेशकेवलहृदादिमित्वमादाय हेतोदु. ष्टत्वं स्यात् , शुद्धस्य विशिष्टानतिरिक्तत्त्वादिति हृदयम् । व्युत्क्रमेणेति । शब्दोऽनित्यः शब्दत्वादित्यादौ प्रथम द्वितीयलक्षण एव सर्वसाध्यवयावृत्तत्वादावन्याप्तेराशंकिततया तादृशाव्याप्तिवारणार्थ प्रथमं प्रथमलक्षणस्यार्थमनभिधाय व्युत्क्रमेण प्रथम द्वितीयलक्षणस्यार्थो दीधितिकृतामिहितस्ततस्त स्प्रकारकेत्यादिना प्रथमलक्षणस्यार्थ इतितु तत्त्वम् । विषयिताहियत्किञ्चितत्सम्बन्धेन शानसम्बन्धि सत् यद्रूपावच्छिन्नं प्रकृतानुमिति. प्रतिबन्धकतानतिरिक्तवृत्ति तद्रूपावच्छिन्नप्रकारकप्रभाविशेष्यत्वं दुष्टत्वमिति तु प्रथमलक्षणस्यार्थः इत्यवधेयम् । । तच्चेति दीधितिमवतारयति नन्वतेति । तत्र सर्वसाध्यषदव्यावृत्तशब्दस्वादिभ्रमे । सव्यभिचारादौ-धूमसाध्यकवह्नयादौ । अतथात्वादिति । तथाच व्यभिचारविषयकत्वस्य ज्ञाननिष्ठतया हेताक्सत्त्वात व्यभिचारिणि हेतौ लक्षणसमन्वयो न स्यादिति भावः। तादृशेति । ताशप्रतिबन्धकतानतिरिक्तवृत्ति चेत्यर्थः । नतु वैज्ञानिकमिति । बाघस्यले साध्याभावस्य वैज्ञानिकत्वे पर्वतो वह्निमान् धूमादित्यादौ बाधनभमादाय "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308