Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 284
________________ अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम् * दीधितिः . स्यात् , को हि साध्याभाव-तव्याप्यवत्ताभ्रमयोरनुमितिविरोधित्वे विशेषः । नियुक्तिकस्तु प्रवादो न श्रद्धेयः। यत्तु ज्ञानस्य यदनुमितिप्रतिबन्धकतावच्छेदकंतद्वत्वम् तत्प्रकारका प्रमाविषयत्वञ्च लक्षणार्थः। ___ * गादाधरी नन्वेवमुक्तस्थले दशाविशेषे हेतोर्दुष्टताप्रवादो नोपपद्यत इत्यत आह नियुक्तिकस्त्विति । उपदर्शितस्थलेऽपि दशाविशेषे हेतोर्दुष्टत्वमङ्गोकुर्वन्तस्तत्साधारण्याय लक्षणमन्यथा व्याचक्षते ये तन्मतमुपन्यस्य दूषयति यत्त्विति । "ज्ञानस्येति" षष्ठयन्तार्थस्य यत्पदार्थेऽन्वयः, तथा च ज्ञानसम्बन्धित्वविशिष्टं यद्रूपावच्छिन्नं यत्किञ्चित्सम्बन्धेन अनुमितिप्रतिबन्धकतावच्छेदकमित्यर्थः । अत्राप्यवच्छेदकत्वं अनितिरिक्तवृत्तित्वम् , उक्तयुक्तः । ® चन्द्रकला दशाविशेषे = भ्रमदशायाम् । हेतोः = निरुक्तशब्दत्वादिहेतोः। अन्यत् सुगमम् । उपदर्शितेति । शब्दोऽनित्यः शब्दत्वात् इत्यादिस्थले दशाविशेषे == सर्वसाध्यवयावृत्तत्वरूपाऽसाधारण्यभ्रमदशायाम् , शब्दादौ पक्षे नित्यत्वव्याप्यासमवेतद्रव्यत्वभ्रमदशायाश्च । हेतोः = शब्दत्वादेः । तत्साधारण्याय - निरुक्तशब्दत्वादिसधेतुसाधारण्याय। लक्षणार्थमाह तथाचेति । ज्ञानेति निश्चयेत्यर्थकम् , तेन न दोषादिविषयक. संशयादिकमादायासम्भव इति ध्येयम् । तथा च यकिञ्चित्सम्बन्धेन निश्चयसम्बन्धि सदेव यदपावच्छिन्नम् प्रकृतानुमितिप्रतिबन्धकतावच्छेदकं भवति तद्रूपावच्छिन्नवत्त्वं हेतौ दुष्टत्वमिति फलितम् । हृदो वनिमान् धूमादित्यादौ प्रमात्मकघन्यभाववहृदनिश्चये विषयितासम्बन्धेन वहन्यभाववढ्दादेः सत्त्वेनैव तस्य ह्रदर्मिकवहन्याद्यनुमितिप्रतिबन्धकता. वच्छेदकतया तद्वत्त्वमादाय धूमादेर्दुष्टत्वमेवमन्यत्रापीति भावः । उक्तयुक्तरिति । हृो वह्निमानित्यादौ वन्यभाववढ्दनिश्चयनिष्ठायां विषयितासम्बन्धेन वन्यभावादेरपि प्रतिबन्धकतायामवच्छेदकत्वात् बाधाये देशकेवलवहन्यभावादिमत्त्वमादाय धूमस्य दुष्टत्वापत्तिः स्यादतोऽत्र प्रतिबन्धकतावच्छेदकत्वमनतिरिक्तवृत्तित्वरूपं वक्तव्यम् , तथा सति केवलवन्यभावादेविषयितासम्बन्धेन "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308