Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini
View full book text
________________
२६६ अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम्
® चिन्तामणि : 8 दशाविशेषे हेत्वोरेवाऽसाधारणसत्प्रतिपक्षयोराभासत्वात् तबुद्धेरप्यनुमितिप्रतिबन्धकत्वम् ।
® दीधितिः ® विरहादित्याशंकां तयोरलक्ष्यत्वेन निराकुरुते दशाविशेष इति ।
हेत्वोः = सद्धत्वोः, असाधारणः = पक्षमात्रवृत्तिः, सन् प्रतिपक्षो विरोधिपरामर्शो यस्य स तथा, तयोर्दशाविशेषे हेतौ सर्वसाध्यवद्व्यावृत्तत्वस्य पक्षे साध्याभावव्याप्यवत्त्वत्य च भ्रमदशायाम्, आभासत्वात् = अनुमित्यजनकत्वात् ,
* गादाधरी ध्द्या सत्राव्याप्तः शङ्कानास्पदत्वादलक्ष्यत्वाभ्युपगमेन तत्परीहारस्यात्यन्ता. सम्भवदुक्तिकत्वात् हेतुपदं सद्धेतुपरतया व्याचेष्टे हेत्वोरिति । सद्धत्वोः साध्यवव्यावृत्तत्वादिरूपासाधारण्यस्य साध्याभावव्याप्यवत्पक्षकत्वरूपसत्प्रतिपक्षितत्वस्य चासम्भवादसाधारणसत्प्रतिपक्षपदे अन्यथा व्याचष्ट असाधारण इति । तथा = प्रकृते सत्प्रतिपक्षपदार्थः। सद्धत्वोदुष्टत्वरूपाभासत्वायोगादाभासपदमन्यथा व्याचष्टे आभासत्वादिति । ___तबुद्धरित्यत्र. तत्पदस्य हेतुपरत्वं न सम्भवति, सत्प्रतिपतस्थले प्रतिबन्धकज्ञानस्य हेतुविषयकत्वानियमाद्धतुविषयकत्वकथनस्याप्रयोजकत्वाद् बुद्धिपदस्यापि बुद्धिसामान्यपरत्वं न सम्भवति हेत्वादिमात्रविषयकज्ञानस्याप्रतिबन्धकत्वादतस्तत्पदस्य हेतुपक्षोभयपरतया बुद्धिपदस्थ
* चन्द्रकला शंकानास्पदत्वादिति । शब्दो नित्यः शब्दत्वादित्यादौ नित्यत्ववव्यावृतत्वत्वविशिष्टशब्दत्वरूपस्य विशिष्टस्य प्रसिद्धत्वात् तस्य लक्ष्यत्वात् तत्र दुष्टत्वस्याप्यावश्यकत्वादित्यभिप्रायः।
हेतुपदमिति | मौलमित्यादिः। मूलस्थासाधारणसत्प्रतिपक्षपदस्य पक्षमात्रवृत्तिः सन् प्रतिपक्ष इत्याद्यर्थकत्वाभिधानप्रयोजनमाह सद्धत्वोरित्यादि । शब्दपक्षकानित्यत्वासाध्यकशब्दत्वाऽसमवेतद्रव्यत्वयोर्हेत्वोरित्यर्थः ।
हेतुविषयकत्वाऽनियमादिति । साध्याभावव्याप्यवत्पक्षस्य हेत्वघटितस्यापि सत्प्रतिपक्षत्वादितिभावः ।
हेत्वादिमात्रेति । केवलं हेतुरित्याकारकशानस्येत्यर्थः । तत्पदस्य तद्बुद्धरित्या
"Aho Shrutgyanam"

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308