Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini
View full book text
________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २६५
दीधितिःसर्वसाध्यवव्यावृत्तेस्तत्रासत्त्वात् , एवं शब्दोऽनित्यः कृतकत्वादित्यस्य सत्प्रतिपक्षे नित्यत्वव्याप्याद्रव्यद्रव्यत्वादावपि पक्षस्य तद्वत्ता
* गादाधरी * वृत्तीत्यत आह सर्वेति । तत्र = हेतो, असत्त्वात् = अवृत्तः, साध्यवति पक्ष हेतोवृत्तरिति शेषः, तथा च तादृशविशिष्टस्याप्रसिध्द्या तस्य दोषत्वासम्भवेन प्रसिद्धस्याविशिष्टसाध्यवव्यावृत्तत्वस्यैव तत्र दोषताया आवश्यकत्वमिति भावः।
अद्रव्यद्रव्यत्वादाविति = असमवेतद्रव्यत्वादावित्यर्थः। असमवेतत्वस्य ध्वंससाधारणतया नित्यत्वव्याप्यत्वासम्भवाद्विशेष्यांशनिवेशः । अत्राप्यनन्तरमव्याप्तिरित्यनुषज्यते, तद्विषयक्त्वस्य पक्षाविषयकज्ञानसाधारणतया प्रतिबन्धकतातिरिक्तवृत्तित्वादिति भावः । ननु केवलं नित्यत्वव्याप्याद्रव्यत्वादिकं न तत्र दोषः, अपि तु पक्षनिष्ठतद्वत्तव, तादृशविशिष्टविषयकत्वच प्रतिबन्धकतानतिरिक्तवृत्त्येवेत्यत आह पक्षस्येति । तथाच पक्षघटितविशिष्टाप्रसिध्द्या पक्षाघटितस्यैव दोषत्वमावश्यकमिति भावः। तयोःतादृशस्थलीयदोषत्वेनाभिमतयोरुक्तधमयोः । शब्दो नित्यः शब्दत्वादित्यादौ शब्दत्वादिविशेष्यकनित्यत्वव्यावृत्तवादिज्ञानविषयविशिष्टस्य प्रसि
___* चन्द्रकला * साध्यवति =अनित्यत्ववति । पक्षे = शब्दे । हेतोः= शब्दत्वस्य । असमवेतेति । शब्दपक्षकानिस्यत्वसाध्यकेत्यादिः। नित्यत्वेति । अनित्यत्वरूपसाध्यस्य योऽभावः नित्यत्वं तद्व्याप्यत्वाऽसम्भवादित्यर्थः विशेष्यांशनिवेशः = द्रव्यत्वांश निवेशः।
असमवेतद्रव्यस्वस्य गगनादावेव सत्त्वेन तत्र नित्यत्वव्याप्यत्वं निर्विवाद. मित्याशयः।
नित्यत्वध्याप्याऽसमवेतद्रव्यत्वेऽप्यव्यातिमुपपादयति तद्विषयकत्वस्येति । नित्यत्वव्यातिविशिष्टाऽसमवेतद्रव्यत्वविषयकत्वस्येत्यर्थः । तादृशेति नित्यत्वव्याप्याऽसमवेतद्रव्यत्वादिमत् शब्दरूपपक्षविषयकत्वं तु इत्यर्थः । दोषत्वमावश्यकमिति । तयाच तत्र तत्राव्याप्तिरेवेति भावः। उक्तधर्मयोः = सर्वसाध्यवव्यावृत्तस्व-नित्यत्वव्याप्याऽसमवेतद्रव्यत्वयोः ।
इत्यादौ = इत्याद्यसद्धतौ।
"Aho Shrutgyanam"

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308