Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 288
________________ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् ® दीधितिः वह्निव्यभिचारिद्रव्यत्वादिमति धूमेऽतिप्रसङ्गाच्च, साध्याभाववत्पक्षस्येव साध्याभावववृत्तिहेतोऑनस्य प्रतिबन्ध गादाधरी विविक्षाहमिति शेषः।धूमादेवहयभाववद्हादाद्यनाश्रयतया एकज्ञानविषयत्वादिरूपसम्बन्धस्य आधारत्वानिर्वाहकत्वादिति मावः। अव्याप्तिमुक्त्वा अतिव्याप्तिमप्याह वह्निव्यभिचारीति । ननु हेतुनिष्ठसाध्यभावववृत्तित्वा. दिरूपविषय एव प्रतिवन्धकतावच्छेदको न तु तद्विशिष्टद्रव्यत्वादिः तदाश्रयश्च न धूमादिरित्याशङ्का निराकरोति साध्याभाववदिति । साध्याभावववृत्तिहेतोनिस्येति = तादृशहेतुविषयकज्ञानस्येत्यर्थः। तथा च वयभावववृत्तिद्रव्यत्वादिकमपि विषयतया अवच्छेदकमिति भावः। ननु धूमादेस्ताहशधर्मवत्त्वेऽपि वह्नौ साध्ये धूमो दुष्ट इत्यादिव्यवहारस्य नापत्तिसम्भवः, उक्तयुक्त्या तद्धतुकानुमितिविरोधिरूपवत्त्वस्यैव तत्र दुष्टताव्यवहारनियामकत्वात् , अन्यथा तवाप्यप्रतीकारा चन्द्रकला सत्त्वात् कयमाश्रयत्वसम्बन्धेन तद्वत्वोक्तो बाधितहेतावव्याप्तिरित्यत आह एकशाने. ति । समूहालम्बनवाधबाधितविषयकैकज्ञानेत्यर्थकम् । आधारत्वेति । तादृशैकज्ञानविषयत्वस्य वृत्त्यनियामकतया तेन सम्बन्धेनाश्रयस्वस्यैवाप्रसिद्धिरिति हृदयम् ।। अव्याप्तिमिति । श्राश्रयतयेत्यादिः । अतिव्याप्तिमप्याहेति। वह्निमान् द्रव्यत्वादित्यादौ वयभाववद्वृत्तित्वविशिष्टद्रव्यत्वरूपव्यभिचारस्य श्राश्रयतासम्बन्धेन वह्निसाध्यकधूमादावपि सत्त्वेन तत्र सद्धतावतिव्याप्तिमध्याहेत्यर्थः । ___ तदाश्रयः = केवलवढयभावववृत्तित्वस्याश्रयः । न धूमादिरिति । तथाच कथं धूमादिसद्धेतावतिव्याप्तिरिति भावः । विषययेति । विषयितासम्बन्धेन ज्ञाननिष्ठं सदेव तादृशद्रव्यत्वं प्रतिबन्धकतावच्छेदकमेवेत्यर्थः। तद्धेतुकेति । वह्रिसाध्यकधूमादिहेतुकानुमितिप्रतिबन्धकतावच्छेदकताशरूपवत्त्वस्यैवेत्यर्थः। वह्निमान् धूमादित्यादौ च ताशरूपमेवाप्रसिद्धमित्याशयः। अन्यथेति । तद्धतुकानुमितिविरोधिरूपवत्त्वस्य दुष्टताव्यवहारनियाभकत्वानभ्युपगमें इत्यर्थः । तवापि = दोषवत्वं दुष्टत्वमिति वदतोऽपि । अप्रतीकारादिति । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308