Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini
View full book text
________________
अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम्
• दीधितिःप्रीकालीनत्वादिविशिष्टपरामर्श तथा इति चेत् ? न वा कालादिसाधारणकारणघटिता सामग्री क्वापि प्रतिबन्धिका, विशेषतस्तत्र तत्सत्त्वे कार्योत्पादस्य दुरित्वात् , किन्तु विरोधिपरामर्शस्तथा ।
•गादाधरीव्यवहितोत्तरक्षणे कार्यानुत्पादस्यावश्यकतया विरोधिसामग्रीकालीनत्वस्य निरुक्तप्रतिबन्धकतावच्छेदकताया आवश्यकत्वदर्शनाय । तथा-- अवश्यमनुमित्यनुत्पादः। विरोधिसामग्याः प्रतिबन्धकत्वं यदुक्तं तदेवादी दूषयति नवेति । नहीत्यर्थः । कालादीति । घटितान्तं हेतुगर्भविशेषणम् , तथा च कारणसमुदायः सामग्री, सा च कचिदपि न प्रतिबन्धिका, कालादिसाधारणकारणानामपि तदन्तर्निविष्टत्वात् , तेषाश्च प्रतिबन्धकतावच्छेदककोटौ निवेशस्य निष्फलत्वात्, प्रतिवध्यकार्येऽपि तेषामनुगुणत्वादित्यर्थः।
सत्प्रतिपक्षस्थले विरोधिकोट्यनुमितिसामग्यास्तकोट्यनुमितिप्रतिबन्धकत्वमत्यन्तासम्भवदुक्तिकमेव, तत्र फलानुत्पादेन सामग्या एवासस्वादित्याह विशेषत इत्यादिना । तत्र-सत्प्रतिपक्षस्थले, सामग्री न प्रतिबन्धिकेत्यनुषज्यते । कार्योत्पादस्य दुर्वारत्वात्-सामग्प्याः काय्यनियतत्वादिति भावः। ननु तर्हि तत्र परामर्शादिरूपानुमितिहेतुसत्त्वादनुमितिः कथं नोत्पद्यत इत्यत आह किन्विति । विरोधिपरामर्शः= साध्याभावव्याप्यवत्तानिश्चयः, तथा = अनुमितिप्रतिबन्धकः।
* चन्द्रकला. अावश्यकत्वदर्शनाय -अवश्यं तत्र प्रतिबन्धकतावच्छेदकत्वमस्तीति प्रदशनाय । तयाच ताहशसामग्रीकालीनत्वमादायव दशाविशेषे सद्धती लक्षणं संगमनीयमिति हृदयम् । हेतुगर्भेति । यतः कालादीनां न प्रतिबन्धकत्वमत एवेत्यर्थकम् । कालादिसाधारणकारणघटिततादृशसामग्रीकालीनत्वस्य प्रतिबन्धकतावच्छेदकत्वं निराकरोति तथाचेति । तेषाम् = कालादीनाम् । तेषामनुगुणत्वात् = कालादीनामनुमित्यादिकार्यप्रयोजकत्वात् । तत्र = सत्प्रतिपक्षस्थले । फलानुत्पादेन = विरोधिकोट्यनुमित्यनुदयेन । सामग्रयाः कार्यनियतत्वादिति । तथाच तादृशसामग्रीसत्त्वे सत्पतिपक्षितत्वमेव हेतौ दुलभमिति भावः । तत्र - सत्प्रतिपक्षस्थले । अनुमितिप्रतिबन्धक इति । तद्वत्ताबुद्धौ तदभावनिश्चयस्येव तदभावव्याप्यनिश्चयस्यापि प्रतिबन्धकतया सत्प्रतिपक्षतादशायाम् उभयपरामर्शस्यैव परस्परानुमितिप्रतिबन्धनिर्वाह
"Aho Shrutgyanam"

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308