Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini
View full book text
________________
२७० अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम्
* दोधितिःबाधे च प्रमितसाध्याभाववान् पक्षः, तद्विषयकत्वेन ज्ञानस्यानुमितिप्रतिबन्धकत्वात् । अविषयरूपञ्च विरोधिसामग्रीकालीनत्वादिकम् , तद्वत्त्वञ्च ज्ञानस्येव तद्विषयस्य हेतोरपीति ।
* गादाधरी भ्रमात्मकबाधप्रतिबन्धकतामादायापादितायाः सद्धतोर्दुष्टताया असम्भव स्पष्टीकत्तु माह बाधे चेति । बाधज्ञाननिष्ठप्रतिबन्धकतायाञ्चेत्यर्थः, अवच्छेदक इति शेषः। पक्षस्य वास्तवं साध्याभाववत्त्वं निविशते न तु वैज्ञानिकमिति सूचयितुं प्रमितेति । तद्विषयस्यावच्छेदकत्वे युक्तिमाह तद्विषयकत्वेनेति । तथाच विषयविषयकत्वस्येव विषयस्यापि विषयितया अवच्छेदकत्वमक्षतमिति भावः। विरोधिसामग्रीकालीनत्वादीति । विरोधिकोट्यनुमितिसामग्रीकालीनत्वेन परामशीदेः प्रतिबन्धकत्वमित्यभिमानः, तथाच तदादायैव सत्प्रतिपक्षिते असाधारणे च सद्धेतौ दुष्टत्वमिति भावः। ननु ज्ञाननिष्ठं विरोधिसामग्रीकालीनत्वमादाय कथं हेतोदुष्टत्वं तस्य ज्ञान एव सत्त्वादित्याशङ्का परि हरति तद्वत्त्वेति । तद्विषयस्य हेतोरपीति । तत्कालनिरूपिताघेयतात्मकस्य
* चन्द्रकला* हेतोर्दुष्टत्वापत्तिः स्यादतो नत्वित्युक्तमितिध्येयम् ।
व्यभिचारादेः साध्याभाववत्पक्षादेरपि प्रतिबन्धकतावच्छेदकत्वं व्यवस्थापयितुं भावमाह तथाचेति । विषयितया = विषयितासम्बन्धेन । ___ परामर्शादेरिति । अादिना सर्वसाध्यवद्द्यावृत्तत्वज्ञानपरिग्रहः । नित्यत्वव्याप्यासमवेतद्रव्यत्ववान् शब्द इत्याकारकनिधयादेरित्यर्थः । तदादायैव = विरोधिकोट्यनुमितिसामग्रीकालीनत्वमादायव । सद्धेतौ = अनित्यत्वसाध्य कशब्दत्वादौ । दशाविशेषे = असाधारण्यादिभ्रमकाले। ज्ञाननिष्ठेति परामर्यादिनिष्ठेत्यर्थकम् । हेतोः= तादृशशब्दत्वादेः। तस्य = विरोधिकोट्यनुमितिसामग्रीकालीनत्वस्व ।
ननु तादृशसामग्रीकालीनत्वं ताशसामग्रोकालनिरूपिताधेयत्वं तच्चाधेयव्यक्तिभेदात् भिन्नमेव, तथाच परामशरूपज्ञाननिष्ठाधेयतायाः परामर्श एवं विद्यमानतया कथं तादृशकालीनत्वमादाय शब्दनादावसाधारणे लक्षणसमन्वयः ? परामर्शनिष्ठस्य तादृशसामग्रीकालीनत्वरूपतत्कालनिरूपिताधेयत्वस्य शब्दत्वादौ विरहादित्यत आह तत्कालेति : ताहशसामग्रीकालेत्यर्थकम् ।
"Aho Shrutgyanam"

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308