Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini
View full book text
________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २६७
दीधितिः तबुद्धः = हेत्वादौ साध्यवव्यावृत्तत्वादिबुद्धेः प्रतिबन्धकत्वं परमायाति न तु तपियस्य दोषत्वम् , असत्यात , अन्यथा वाधभ्रमेणानुमित्यनुदयात् तस्यापि दोषत्व
गादाधरी ७ साध्यतयावृत्तत्त्व-साध्याभावव्याप्यनत्त्वाबपाहिबुद्धिपरतया तद्बुद्धिपदं हेतुविषयकसाध्यवयावृत्तित्व पक्षविषयकसाध्याभावव्याप्यवचाबुद्धिपरतया व्याचष्टे तद्बुद्धरिति । तयोरलक्ष्यतालाभाय हेत्वोरनन्तरं श्रुत एवकारोऽत्र योजनीय; । तदर्थमन्तर्भाव्य व्याचष्टे प्रतिबन्धकत्वं परमायातीति । परम् केवलम् । एवकारव्यवच्छेद्यं स्फुण्यति नस्विति । तद्विषयस्य = तादृशबुद्धिविषयस्य, दोषत्वम् - दोषलक्षणलक्ष्यत्वम् , अस. स्वात् = लक्ष्यताप्रयोजकस्यासत्त्वात् , प्रतिबन्धकीभूतज्ञानप्रमावस्यैव तद्विषयलक्ष्यताप्रयोजकत्वादितिभावः। असत्वात् =विशिष्टस्याप्रसिद्धत्वादिति तु नाथः, एकदेश एवाव्याप्तराशलिलया विशिष्टाप्रसिद्धस्तदलय. तानिर्वाहकत्वविरहेणानुपयोगात्, अन्यथाप्रति पन्धकीभूतभ्रमविषयस्यापि दोषत्वे, बाधभ्रमेण = पक्षे साध्याभावभ्रमेण ।
* चन्द्रकला * दिमौलतत्पदस्य । तदर्थमन्तर्भाव्य = श्रुतैवकारार्थमन्तर्भाव्य । तादृशबुद्धीति सर्वाsनित्यत्वव्यावृत्तशब्दत्वज्ञानविषयस्य नित्यत्वव्याप्यासमवेतद्रव्यत्वादिमच्छब्दज्ञानविषयस्य चेत्यर्थः । लक्ष्यताप्रयोज केति । यत्र दोषतावच्छेदकत्वेनाभिमतं विशिष्टं रूपं तत्रैव लक्ष्यत्वमिति हृदयम् ।
ननु तर्हि लक्ष्यताप्रयोजक किमित्याकांक्षयामाह प्रतिबन्धकीभूतेति । तद्विषयस्य प्रतिबन्धकीभूतज्ञानविषयस्य । तथाच प्रकृतानुमितिप्रतिबन्धकीभूतज्ञाननिष्ठं प्रमात्वमेव तद्विषयस्य लक्ष्यताप्रयोजकमितिभावः ।
एकदेश एव = केवलसर्वसाध्यवद्ध्यावृत्तत्वादावेव । तदलक्ष्यतेति । सर्वसाध्यवव्यावृत्तत्वरूपैकदेशनिष्ठालक्ष्यतेत्यर्थकम् !
दीधितिस्थान्यथापदार्थ व्याचष्टे प्रतिबन्धेति । साध्याभावभ्रमेणेति । पर्वतो वह्निमान् धूमादित्यादौ पर्वतादौ वह्नयाद्यभावभ्रमेणेत्यर्थः । तस्येति तत्पदस्य भ्रमपरामर्शकत्वे असंगतिः, ज्ञानस्यादोषत्वात्, घन्यभावविशिष्टपर्वतादेश्चाप्रसिद्धया परामर्शाऽसम्भवादाह तद्विषयेति । ताहशभ्रमविषयेत्यर्थकम् ।
"Aho Shrutgyanam"

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308