Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 262
________________ २४६ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् * गादाधरी स्वावच्छिन्नविषयकत्वव्यापकतादृशज्ञानविरोधिविषयिताकधम्मवत्वमिति तु फलितार्थः। अत्र च वियितानिष्ठं स्वरूपसम्बन्धात्मकतादृशज्ञानविषयविषयकग्रहप्रतिबन्धकतावच्छेदकतात्मकतादृशज्ञानविरोधित्वमेव निवेशनीयम् , न तु विषयनिष्ठं निर्वाच्यतादृशज्ञानविरोधित्वम् , तस्यैव लक्षणत्वसम्भवेन शेषवैयर्थ्यप्रसङ्गात् । अत्र च विषयनिष्ठस्य निर्वाच्यतादृशज्ञानविरोधित्वस्येव तदपक्षया लघुतया * चन्द्रकला * स्वावच्छिन्नेति । स्वं दोषतावच्छेदकत्वेनाभिमतो धर्मः । तथाच तादृशस्वावच्छिन्नविषयकत्वव्यापकं यत् प्रकृतपक्षे प्रकृतसाध्यवैशिष्ट्यावगाहिप्रकृतहेतुवैशिष्ट्यावगाहिज्ञानविरोधिविषयित्वं तद् यस्य एवम्भूतं यत् स्वं तादृशस्ववत्त हेत्वाभासत्वमिति मूलोक्तद्वितीयलक्षणस्य फलितार्थःपर्यवसितः। तथाच न घटेऽतिव्याप्तिः, घटत्वावच्छिन्नविषयकत्वस्य घट इत्याकारकाऽसमूहालम्बनशानेऽपि सत्त्वात् तत्र च हृदादौ वन्यादिवैशिष्ट्यावगाहिज्ञानविषयविषयकगृहविरोधिविषयिताविरहेण घटत्वावच्छिन्नविषयकत्वव्यापकतायाः तादृशज्ञानविरोधिविषयितायामभावात् स्वपदेन घटत्वस्योपादातुमशक्यत्वादिति तु परमार्थः । अत्र चेति निरुक्तलक्षणे चेत्यर्थः । घटकत्व सप्तम्यर्थः, अस्य च तादृशज्ञानविरोधित्वमित्यनेनान्वयः । स्वावच्छिन्नविषयकत्वव्यापकत्वविवक्षणादेव दौषैकदेशेऽतिव्यातिवारणसम्भवे विषयितानिष्ठानतिरिक्तवृत्तित्वरूपप्रतिबन्धकतावच्छेकत्वनिवेशस्य प्रयोजनाभावादाइ स्वरूपेति । तादृशेति पक्षे साध्यादिवैशिष्ट्यावगाहिज्ञानेत्यर्थकम् । विषयनिष्ठम् = दोषादिविषये वर्तमानम् । तादृशज्ञानविरोधित्वम् = पक्षे साध्यादिवैशिष्ट्यावगाहिज्ञानविषयविषयकग्रहप्रतिबन्धकताबच्छेदकवियिताकत्वरूपं विरोधित्वम् । तस्यैव - निरुक्तविरोधित्वस्यैव । शेषवैयर्थ्यप्रसंगादिति । पक्षे साध्यवैशिष्ट्यावगाहिसाध्यव्याप्यहेतुवैशिष्ट्यावगाहिशानविषयविषयक ग्रहप्रतिबन्धकतावच्छेदकविषयितानिरूपकत्वादिरूपं विषयनिष्ठज्ञानविरोधित्वं हेत्वाभासत्वमित्युक्तावेव सर्वसामञ्जस्ये तादृशज्ञानस्य यद्विषयक ज्ञानं विरोधिविषयकमितिशेषोपादानं निरर्थकं स्यादित्याशयः । विषयनिष्ठ मेव ताशज्ञानविरोधित्वं लाघवात् वक्तव्यमित्याहात्रचेति । निरुक्तलक्षणे चेत्यर्थः। । लघुतयेति । स्वावच्छिन्नविषयकत्वादिव्यापकतयाः "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308