Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 278
________________ अनुमानगादाधयाँ सामान्यनिरुक्तिप्रकरणम् * गादाधरी तायाञ्च षष्ठयन्तवह्निपदप्रतिपाद्यस्य वह्निनिष्ठत्वस्य स्वरूपसम्बन्धेन, साध. नपदार्थोक्तप्रकारताद्वये च सप्तम्यन्तार्थस्य निर्वह्नित्वविशिष्टविशेष्यताया निरूपितत्वसम्बन्धेनान्वयः, साधनपदोत्तरसप्तम्या निरूपकत्वं द्वित्वश्चार्थः, निरूपकत्वे च निरुक्तसाधनपदार्थयोः पृथगन्वयः, तदन्वितनिरूपकत्वे च द्वित्वान्वयः, द्वित्वान्वितताहशनिरूपकत्वयोश्च दोषपदार्थघटकाभावेऽन्वयः, तथाच निर्वह्नित्वविशिष्टविशेष्यतानिरूपितवह्निप्रकारतानिरूपकस्वस्य तादृशविशेष्यतानिरूपिता या वहिप्रकारतानिरूपितव्याप्तिप्रकारतानिरूपितधूमत्वावच्छिन्नप्रकारता तन्निरूपकत्वस्य च द्वयोरभावप्रयोजकभ्रमान्यवृत्तिविषयितानिरूपकवानित्येवान्वयबोधः । प्रतिबन्धकीभूतभ्रम ॐ चन्द्रकला निर्वह्नित्वविशिष्टे इत्यत्र सप्तम्यर्थो विशेष्यत्वं तत्रच निर्वह्नित्वविशिष्टस्याधेयतथा, वहरित्यत्र षष्ठयर्थनिष्ठत्वे तु वह्निपदार्थस्य निरूपितत्वसम्बन्धेनान्वयो बोध्यः । निरुक्तति प्रकारतायाः प्रकारतानिरूपितव्याप्तिप्रकारतानिरूपितहेतुप्रकारतायाश्च पृथगन्वय इत्यर्थः । तदन्वितेति तादृशप्रकारताद्वयान्वितेत्यर्थकम् । द्वित्वान्वय इति । स्वरूपसम्बन्धेनेत्यादिः । अभावेऽन्वयः इति प्रतियोगितासम्बन्धेनेत्यादिः । समुदितपदार्थान्वयबोधमाह तथाचेति । निरुक्तक्रमेण समस्तपदार्थनिर्वचने चेत्यथः । ननु अभावप्रयोजकभ्रमान्यवृत्तिविषयितानिरूपकपर्यन्तस्य दुषधात्वर्थत्वे सम्बधिनश्च तत्र प्रत्ययार्थत्वेऽपि विषयितायां भ्रमान्यवृत्तित्वविशेषणं निरर्थकमित्यत आह प्रतिबन्धकीभूतेति । अनुमितिप्रतिबन्धकतावान् यो भ्रमस्तदोयविष ___ * कलाविलासः * तथाच निर्वह्नित्वेति । नव निर्वहिर्वह्निमान् इत्यादिस्थले पूर्व विरोधिविषयिताया अप्रसिद्धरेवाशंकिततया कथमुक्तशाब्दबोधः समीचीन इति वाच्यम्, परे तु कल्पाभिप्रेतप्रतिबध्यप्रतिबन्धकमावस्येदानीमप्यादरणीयतया प्रयोज्य प्रयोजकभावाभिधानस्य समीचीनत्वसम्भवादिति दिक् । इतिश्रीमदुदासीनपरमहंसपरिव्राजकाचार्यवर्य - श्रीमत्स्वामिजयरामदासभगवत्पादशिष्य-समस्तभारतवर्षप्रसिद्धसिन्धुमहा-नदान्तर्वति-साधुवेलातीर्थाधीश पदवाक्यप्रमाणपारावारीण-स्वामिश्रीमद्हरिनामदासविरचिता हेत्वाभाससामान्यनिरुक्तः कलाविलासनामिका टीका समाप्ता । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308