________________
अनुमानगादाधयाँ सामान्यनिरुक्तिप्रकरणम्
* गादाधरी तायाञ्च षष्ठयन्तवह्निपदप्रतिपाद्यस्य वह्निनिष्ठत्वस्य स्वरूपसम्बन्धेन, साध. नपदार्थोक्तप्रकारताद्वये च सप्तम्यन्तार्थस्य निर्वह्नित्वविशिष्टविशेष्यताया निरूपितत्वसम्बन्धेनान्वयः, साधनपदोत्तरसप्तम्या निरूपकत्वं द्वित्वश्चार्थः, निरूपकत्वे च निरुक्तसाधनपदार्थयोः पृथगन्वयः, तदन्वितनिरूपकत्वे च द्वित्वान्वयः, द्वित्वान्वितताहशनिरूपकत्वयोश्च दोषपदार्थघटकाभावेऽन्वयः, तथाच निर्वह्नित्वविशिष्टविशेष्यतानिरूपितवह्निप्रकारतानिरूपकस्वस्य तादृशविशेष्यतानिरूपिता या वहिप्रकारतानिरूपितव्याप्तिप्रकारतानिरूपितधूमत्वावच्छिन्नप्रकारता तन्निरूपकत्वस्य च द्वयोरभावप्रयोजकभ्रमान्यवृत्तिविषयितानिरूपकवानित्येवान्वयबोधः । प्रतिबन्धकीभूतभ्रम
ॐ चन्द्रकला निर्वह्नित्वविशिष्टे इत्यत्र सप्तम्यर्थो विशेष्यत्वं तत्रच निर्वह्नित्वविशिष्टस्याधेयतथा, वहरित्यत्र षष्ठयर्थनिष्ठत्वे तु वह्निपदार्थस्य निरूपितत्वसम्बन्धेनान्वयो बोध्यः ।
निरुक्तति प्रकारतायाः प्रकारतानिरूपितव्याप्तिप्रकारतानिरूपितहेतुप्रकारतायाश्च पृथगन्वय इत्यर्थः । तदन्वितेति तादृशप्रकारताद्वयान्वितेत्यर्थकम् । द्वित्वान्वय इति । स्वरूपसम्बन्धेनेत्यादिः । अभावेऽन्वयः इति प्रतियोगितासम्बन्धेनेत्यादिः । समुदितपदार्थान्वयबोधमाह तथाचेति । निरुक्तक्रमेण समस्तपदार्थनिर्वचने चेत्यथः ।
ननु अभावप्रयोजकभ्रमान्यवृत्तिविषयितानिरूपकपर्यन्तस्य दुषधात्वर्थत्वे सम्बधिनश्च तत्र प्रत्ययार्थत्वेऽपि विषयितायां भ्रमान्यवृत्तित्वविशेषणं निरर्थकमित्यत आह प्रतिबन्धकीभूतेति । अनुमितिप्रतिबन्धकतावान् यो भ्रमस्तदोयविष
___ * कलाविलासः * तथाच निर्वह्नित्वेति । नव निर्वहिर्वह्निमान् इत्यादिस्थले पूर्व विरोधिविषयिताया अप्रसिद्धरेवाशंकिततया कथमुक्तशाब्दबोधः समीचीन इति वाच्यम्, परे तु कल्पाभिप्रेतप्रतिबध्यप्रतिबन्धकमावस्येदानीमप्यादरणीयतया प्रयोज्य प्रयोजकभावाभिधानस्य समीचीनत्वसम्भवादिति दिक् । इतिश्रीमदुदासीनपरमहंसपरिव्राजकाचार्यवर्य - श्रीमत्स्वामिजयरामदासभगवत्पादशिष्य-समस्तभारतवर्षप्रसिद्धसिन्धुमहा-नदान्तर्वति-साधुवेलातीर्थाधीश
पदवाक्यप्रमाणपारावारीण-स्वामिश्रीमद्हरिनामदासविरचिता हेत्वाभाससामान्यनिरुक्तः कलाविलासनामिका टीका समाप्ता ।
"Aho Shrutgyanam"