________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २६१
गादाधरी 8 इदं पुनरिहावधेयम् । तावदन्यान्यत्वमितरभेदानुमापकमेव न तु दोषपद. प्रवृत्ति निमित्तम् , तथासति निर्वह्नित्वविशिष्टे वह्निसाधने धूमो दुष्ट इत्यादौ दुष्टपदस्य ववथभावविशिष्टिनिवह्नित्वाद्यवच्छिन्नान्यतमवदर्थक तया निर्वह्नित्वविशिष्टे वह्निसाधने इत्यादेरनन्वितार्थकत्वप्रसङ्गादप्रसिद्ध्या तस्य हेवन्वयिनिवह्नित्वविशिष्टविशेष्यकवह्नयनुमितिप्रयोजकत्वार्थकत्वासम्भवात् , किन्तु अभावप्रयोजकभ्रमान्यवृत्तिविषयितानिरूपकवत्त्वमेव तथा, उक्तस्थले च प्रकारता, प्रकारतानिरूपितव्याप्तिप्रकारतानिरूपितधूमस्वावच्छिन्नप्रकारता चोभयमेव साधनपदार्थः । प्रकारतारूपसाधनपदार्थेऽपरपदार्थैकदेशव्याप्तिप्रकारतानिरूपकप्रकार
चन्द्रकला दक दोषव्यवहारोपयिक वक्तव्यम् , तथासति वह्नयभाववस्वावच्छिन्ने वह्रिसाधने धूमो दुष्ट इत्यादी दुष्ट इत्यस्य वह्नयभाववन्निष्ठवह्नयभावादिभिन्नभिन्नवदर्थकताया आवश्यकतया निर्वद्वित्वविशिष्टे वह्निसाधने इत्यादिसमुदायार्थस्य अन्वयानुपपत्तिः स्यादित्याहेदम् पुनरिहेति ।। ___एवकारल्यवच्छेद्यमाह नस्विति । दोषपदप्रवृत्तिनिमित्तं दोषपदशक्यतावच्छे. दकं दोषव्यवहारौपयिकमितियावत् । निषेधे हेतुमाह तथासतीति । निरुक्तलक्षणस्य दोषपदप्रवृत्तिनिमित्तत्वाभ्युपगमे सतीत्यर्थः । अधिकमभिहितं प्राक् ।
ननु निर्वद्विस्वविशिष्टे वह्निसाधने धूमो दुष्ट इत्यादौ दुष्टपदस्य वह्नयभावघनिष्ठवड्यभावाद्यन्यतमवदर्थकत्वेऽपि न निर्वह्नित्वविशिष्टे इत्यादेरनन्वयप्रसंगा, अनुमित्यर्थकसाधनपदोत्तरसप्तम्या: प्रयोजकत्वार्थ स्वीकृत्य निर्वह्निविशेष्यताकवड्यनुमितिप्रयोजकताया धूमेऽन्वयसम्भवादित्यत आह अप्रसिद्धयेत्यादि । तस्य = निर्वह्नित्वविशिष्टे वह्निसाधने इत्यादिसमुदायस्य ।
तथाच निर्वद्विविशेष्यकवविज्ञानस्याहार्यत्वेन तस्यानुमितित्वं न सम्भवदुक्तिकमपीति हृदयम् ।
ननु तर्हि तत्र कीदृशान्वयबोधोऽभ्युपगन्तव्य इत्यत आह किन्वित्यादि । तथा = दुष्टत्वम् । उक्तस्थले = निर्नह्नित्वविशिष्टे वह्नःसाधने धूमो दुष्ट इत्यादिस्थले । अपरपदार्थैकदेशेति, प्रकारतानिरूपितव्याप्तिप्रकारतानिरूपितहेतुप्रकारतारूपसाधनपदार्थैकदेशीभूतायां प्रथमप्रकारतायाञ्च । स्वरूपसम्बन्धेनेति अन्वय इतिशेषः।
"Aho Shrutgyanam"