________________
२६० अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम्
* दीधितिः ध्यभिचारादेः साध्यादिभेदनियन्त्रितत्वात् शब्दाभेदमात्रस्य चाकिञ्चित्करत्वादिति प्राहुः ।।
___® गादाधरी नामेव हेत्वाभासानां सम्भवः गौरश्वो घटत्वादित्यादौ तस्थलीयलक्षणाक्रान्तस्य पञ्चविधत्वाभिप्रायेणेत्यर्थः । ननु लक्षणाननुगमादितरभेदानुमाने भागासिद्धिरित्यत आह व्यभिचारादेरिति । साध्यादिभेदनियन्त्रितत्वात साध्यादिभेदनियन्त्रितलक्ष्यतावच्छेदकत्वात् , तथाच लक्षणस्येव लक्ष्यतावच्छेदकस्याप्यननुगमान्न भागासिद्धिरिति भावः । नन्वेवमप्यनुगतोक्तयसम्भवान्नायं प्रकारः साधीयानित्यत आह शब्दाभेदमात्रस्येति ।
चन्द्रकला. गौरश्व इत्यादि । अत्र अश्वत्वाभावववृत्ति घटत्वं व्यभिचारः, अश्वत्वाधिकरणवृत्तित्वाभावविशिष्टघटत्वं विरोधः, घटत्वाभावविशिष्टो गौः स्वरूपासिद्धिः, अश्वत्वाभाववद्गोबर्बाधः, अश्वत्वाभावव्याप्यवांश्च गौः सत्यतिपक्षहति पञ्चानां हेत्वाभासानामत्र समावेशात् निरुक्तस्थलाभिप्रायेणैव पञ्चविधत्वाभिधानं न तु सर्वत्रेति भावः।
लक्षणाननुगमादिति । लक्षणस्य नानात्वे हृदो वह्निमान् धूमादित्यादिस्थलीयलक्षणस्थतत्चद्दोषभिन्न भिन्नत्वस्य दोषात्मकपक्षकदेशे व्यभिचारादौ विरहात् भवति भागासिद्धिरिति नन्वित्यादिशंकाया अभिप्रायः ।
साध्यादीति । आदिना हेतोः परिग्रहः । व्यभिचारादेरित्यत्रादिना बाधादेः परिग्रहः । व्यभिचारादेः साध्यादिभेदेन भिन्नत्वस्यावश्यकत्वादाह तथाचेति । न भागासिद्धिरिति । हृदो वह्निमान् धूमादित्यादौ दोषसामान्यस्य न पक्षत्वं किन्तु तत्स्थलीयतत्तद्दोषादेरेव, तत्र च तत्स्यीयतत्तद्दोषभिन्न भिन्नत्वस्याननुगतस्यापि लक्षणस्य सत्त्वान्न भागासिद्धिरित्यर्थः । __ तथा च लक्षणवत् लक्ष्यतावच्छेदकस्याप्यननुगततया तत्तदोषाः स्वेतरभिन्ना: बाधत्वाद्यवच्छिन्नो वा स्वेतरभिन्न: बाघत्वाद्यवच्छिन्नभिन्नत्वादित्याकारकेतर. भेदानुमानस्यैव पर्यवसिततया न कोऽपि दोष इति भावः।
शब्दाभेदस्येति । लक्षणात्मकशब्दस्य अभेदः ऐक्यं तस्येत्यर्थः । अकिश्चित. करत्वादिति । निरुक्तलक्षणस्यकताया वक्तुमशक्यत्वादित्याशयः। .. ____ इदन्तु तत्तद्धर्मावच्छिन्नभेदकूटावच्छिन्नभेदवद्धर्मवत्त्वरूपं लक्षणं दोषाः स्वेतर. भिन्नाः तादृशभेदवद्धर्मवत्वादित्याकारकेतरमेदानुमाएकमेव, नतु दोषपदशक्यतावच्छे
"Aho Shrutgyanam"