________________
२५६.
चन्द्रकला कलाविलासाख्यटीकाद्वयोपेतम् २५६
* दीधितिः . पञ्चविधभेदोक्तिस्तु तत्सम्भवस्थलाभिप्रायण,
* गादाधरो * एतच्च यथाश्रताभिप्रायेण, तत्तद्धर्मावच्छिन्ननिरूपितविषयितान्यतमविषयितानिरूपकतावच्छेदकधर्मवत्त्वस्य लक्षणत्वे चाधिकविकासकतया विशेषणसार्थक्यमित्यवधेयम् । ननु साध्यादिभेदेन लक्षणभेदे दो वह्निमान् धूमादित्यादिस्थलीयस्य लक्षणस्य पञ्चविधहेत्वाभाससाधारएयासम्भवात्तादशलक्षणाक्रान्तानां पञ्चविधत्वोत्तथसङ्गतिरित्यत आह पञ्चविधभेदोक्तिरिति । पञ्चविधत्वोक्तिरित्यर्थः । तत्सम्भवस्थलेति । यत्र पञ्चा
ॐ चन्द्रकला एतच्चेति निरुक्तवैयाभिधानश्चेत्यर्थः। यथाश्रतेति । स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकस्वसमानाधिकरणप्रकृतसाध्यव्याप्यतावच्छेदकीभूतो यो धर्मस्तदवच्छिन्नविषयकप्रतीतिविषयतावच्छेदकस्ववत्त्वस्य यथाश्रुतवेयर्थ्यलक्षणाभिप्रायेणेत्यर्थः । तत्तद्धर्मेति । तत्तद्धर्मावच्छिन्नविषयिताभिन्न भिन्न विषयितानिरूपकतावच्छेदकधर्मवत्त्वस्येत्यथः । लक्षणत्वे - लक्षणार्थत्वे ।
अधिकेति । स्वव्यापकप्रकृतसाध्यव्याप्यतावच्छेदकधर्मान्तरघटितस्यैव वैयर्यलक्षणस्य वक्तव्यतयेत्यर्थः । विशेषणेति । तत्तद्धर्मावच्छिन्नभेदकूदावच्छिन्नभेदरूपलक्षणात्मकेतरभेदानुमापकहेतोः तत्तद्धर्मावच्छिन्नविषयितान्यतमविषयितानिरूपकताघच्छेदकधर्मवत्त्वरूपलक्षणात्मकतादृशहेतोर्वा सार्थक्यमित्यर्थः । __ द्रव्यं गुणकर्मान्यत्वे सति समवेतादित्यत्र गुणत्वस्य द्रव्यत्वव्याप्यतावच्छेदकतया समवेतवसमानाधिकरणतया च तद्घटितनिरुक्तसमवेतत्ववतो हेतोव्यथतापत्त्याव्यर्थतावच्छेदकत्वेनाभिमतस्वव्यापकधर्मान्तरघटितस्ववत एव व्यर्थताया वक्तव्यतया निरुक्तस्थले वैयर्थ्याशंकोदय एव न सम्भवति, तादृशभेदकूटावच्छिन्नभेदस्य तत्तद्धमस्वरूपत्वेऽपि तादृशभेदत्वव्यापकत्वस्य तत्तद्धमत्वरूपवाघत्ववादी विरहात् तादृशभेदत्वस्य व्यभिचारत्वादावपि सत्त्वात् । एवं तादृशान्यतमविषयितानिरूपकतावच्छेदकत्वत्यापि व्यभिचारत्वबाधत्वादिसाधारणतया तद्वयापकत्वस्यापि तत्तद्धर्मत्वेऽभा. वात् न लक्षणात्मकहेतोर्वैयर्थ्यमित्यभिप्रायः । ___ हृदो वह्निमान् धूमादित्यादौ हेत्वाभासपञ्चकस्याऽसम्भवात् तत्स्थलोयलक्षणस्य पञ्चविधभेदघटितत्वमयसम्भवीत्याशंक्य पञ्चविधेत्यादिदीधितिमवतारयति नन्विति । पञ्चविधत्वोक्तिः- पञ्चविधत्वाभिधानम् ।
"Aho Shrutgyanam"