________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २६३
गादाधरी विषयितानिरूपकाभावादिमत्त्वमादाय पर्वते वह्निसाधने धूमो दुष्ट इत्यादिप्रयोगवारणाय विषयितायां भ्रमान्यवृत्तित्वं निवेशितम् । दोषघटके केवलसाध्याभावादौ दोषव्यवहाराभावात् अत्रायं दोष इत्यादौ स्वविषयकनिश्चयाव्यवहितोत्तरानुमितिनिष्ठतादृशोभयाभावाधिकरणतात्वव्यापक विरोधिविषयिताप्रयोज्यताकधर्म एव दोषपदार्थ इति दिक् ।
* चन्द्रकला यितानिरूपकवहन्यभावादिमत्त्वमादायेत्यर्थः । श्रादिना पर्वतादेः परिग्रहः ।
भ्रमान्यवृत्तित्वमिति । विषयितायां भ्रमान्यवृत्तित्वविशेषणानुपादाने पर्वते चह्न साधने धूमो दुष्ट इतिप्रयोगापत्तिः स्यात् तत्रापि धूमे पर्वतविशेष्यतानिरूपितवहिप्रकारतानिरूपकत्व- तादृशविशेष्यतानिरूपितवनिप्रकारतानिरूपितव्यातिप्र. कारतानिरूपितहेतुप्रकारतानिरूपकत्वयोर्द्वयोरभावप्रयोजिका या वयभाववान् पर्वत इत्याकारकभ्रमीयविषविता तन्निरूपकवह्नयभावादेः स्वज्ञानविषयप्रकृतहेतुता. वच्छेदकवत्त्वसम्बन्धवत्त्वस्यानपायादतो भ्रमान्यवृत्तित्वं तादृशविषयितायां देयम् , तथा सति नोक्तप्रयोगापत्तिः, निरुक्तविषयितायाः पर्वतादौ वह्नयभावप्रकारकभ्रमवृत्तित्वादित्याशयः ।
नन्वेवम् अभावप्रयोजकभ्रमान्यवृत्तिविर्षायतानिरूपकस्य दोषपदार्थत्वे हृदो वहिमानित्यादौ वयादिकं दोष इतिव्यवहारापत्तिः, वन्यादिविषयिताया अपि हृदादिधर्मिकवन्याद्यनुमितिप्रतिबन्धकतावच्छेदकतया वह्नयादावपि तादृशोभयाभावप्रयोजकभ्रमान्यवृत्तितादृश विषयितानिरूपकत्वस्य सत्त्वात् प्रतिवन्धकतावच्छेदकविषयिताप्रयुक्तत्वस्य दोषतावच्छेदकधर्माभावे स्वीकरणीयत्वादित्याह दोषघटकेति । अत्र = हेतो।
इत्यादौ= इत्याकारकव्यवहारस्थले स्वविषयकेति । अत्र स्वपदं दोषतावच्छेदकत्वेनाभिमतधर्मपरं न तु दोषत्वेनाभिमतव्याप्तिपरम् , अग्रेच धर्मपदं धर्मवदथकम् , तेन विशिष्टदोषस्य विशेष्यमात्रात्मकत्वेऽपि न क्षतिः, नवा घटत्वाभाववदाकाशादेवृत्तिमत्त्वलक्षणधर्मत्वाभावेऽपि आकाशपक्षकघटत्वादिसाध्यकस्थले तस्य दोषत्वानुपपत्तिरितिध्येयम् ।
तथा स्वावच्छिन्नविषयकनिश्चयाव्यवहितोत्तरानुमितौ या तादृशोभयाभावाधिकरणता तादृशाधिकरणतात्वव्यापकीभूता या विरोधिविषयितानिष्ठप्रयोजकतानिरूपिता प्रयोज्यता सा यस्य स्वस्य एवम्भूतस्वात्मकधर्मवानेव दोषपदार्थ इत्यर्थः ।
"Aho Shrutgyanam'