________________
२५४
अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम्
* दीधितिःस्यादेतत् , शब्दोऽनित्यः शब्दत्वात् , इत्यत्रासाधारणेऽव्याप्तिः
8 गादाधरी असाधारण्यस्य पक्षवृत्तित्वे सति साध्यव्यापकीभूताभावप्रतियोगितात्मकस्य, सत्प्रतिपक्षस्य च पक्षनिष्ठसाध्याभावव्याप्यवस्वरूपस्य बुद्धंविरोधिविषयकतया साध्यवत्ताज्ञानविरोधित्वं निविवादमेव । एकच तज्ज्ञानदशायां हेतोरनुमित्यजनकत्वात्तबुद्धः प्रतिबन्धकत्वमावश्यकमित्येतादृशयथाश्रतार्थपरस्य दशाविशेषे इत्यादिमूलस्यानुस्थितिः, अन्यथा साधारण्यादिज्ञानस्य प्रतिबन्धकताया अपि व्यवस्थापयितुमुचितत्वादतस्तादृशमूलमन्यथा व्याख्यातुमवतरणिकामाह स्यादेतदिति । इत्यत्रासाधारणे-एतत्स्थलीयासाधारण्यरूपदोषप्रकारकहेतुविशेष्यकभ्रम - विषये सर्वसाध्यवद्वथात्तत्वात्मके। अव्याप्तिरिति । तद्विषयकत्वस्य निरुक्ता नुमित्यप्रतिबन्धकहेत्वविषयकज्ञानसाधारणतया तादृशप्रतिबन्धकतातिरिक्तवृत्तित्वादिति भावः । ननु केवलं सर्वसाध्यवव्यावृत्तत्वं न दोषः अपि तु साधनवृत्तित्वविशेषितम् तादृशविशिष्टविषयकत्वन्तु न प्रतिबन्धकतातिरिक्त
* चन्द्रकला तृतीयलक्षणव्याख्यानन्तु तृतीयमपीत्यादिना स्वयमेव पूर्वमुक्तमतो नेह वितन्यते, अत्र निवेद्विवह्निमान् धूमादित्यादी अत्रायं दोष इति व्यवहारो न स्यात् , तत्र विरोषिविषयितायाः पूर्वोक्तयुक्त्याऽप्रसिद्धत्वादिति तु विभावनीयमित्यलं पल्लवितेन ।
__स्यादेतदित्वाद्यवतरणं संगमयति असाधारण्यस्येति । बुद्धः = निश्चयस्य । विरोधिविषयकतया = साध्याभावव्याप्यक्त्वावगाहितया । तद्रुद्धः = असाधारण्यादिबुद्धः । अन्यथेति । दशाविशेषे इत्यादिमूलस्य प्रत्येकज्ञानस्य अनुमितिप्रतिबन्धकत्वव्यवस्थापनपरत्वे इत्यर्थः । उचितत्वादिति । तथाच केवलासाधारण्यादि. ज्ञानस्य तथात्वाभिधानमयुक्तमिति भावः ।
श्रव्याप्तिमुपपादयति तद्विषयकत्वस्येति । सर्वसाध्यवव्यावृत्तत्वावच्छिन्नविषय. कत्वस्येत्यर्थः । सर्वसाध्यवव्यावृत्तत्वमात्रस्य लक्ष्यत्वे तत्राव्यातिः,तादृशव्यावृत्तत्वावच्छिन्नविषयकत्वस्य हेत्वविषयककेवलव्यावृत्तत्वावच्छिन्नविषयकेऽपि निश्चये वर्तमानतया तत्राऽनुमितिप्रतिबन्धकताविरहेण तद्विषयकत्वव्यापकतायाः प्रकृतानुमितिप्रतिबन्धकतायामसत्वात् । हेतुनिष्ठसर्वसाथ्यवद्व्यावृत्तत्वन्तु अप्रसिद्धम्, अनित्यत्ववति शब्दे शब्दत्वस्य वृत्तरित्यवश्य हेत्वघटितस्यैव तस्य लक्ष्यत्वादितिभावः ।
"Aho Shrutgyanam"