Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini
View full book text
________________
२५८
अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम्
• गादाधरी - धर्मिभेदान्न वैयर्थ्यम् । तत्तद्धर्मावच्छिन्नभेदमात्रावच्छिन्न प्रतियोगिताकान्योन्याभावस्य स्वप्रतियोगितावच्छेदकीभूतभेदप्रतियोगितावच्छेदकतत्तद्धमस्वरूपत्वेऽपि तादृशभेदकूटावच्छिन्नप्रतियोगिताकभेदत्वस्य नानाधर्मषु कल्पनापेक्षया तद्विशिष्टस्यैकस्य भेदस्य लाघवेन कल्पयितुं युक्तत्वादित्यभिप्रायः।
चन्द्रकला. धर्मिभेदान्न वैयर्थ्यमिति । तथाच स्वसमानाधिकरणप्रकृतसाध्यव्याप्यता. वच्छेदकधर्मान्तरघटितस्ववत एव व्यर्थतया तत्तद्धर्मावच्छिन्नभेदकूटावच्छिन्नप्रतियोगिताकभेदस्य तत्तद्धर्मातिरिक्तभेदस्वरूपत्वे स्वपदेन तादृशभेदकूटावच्छिन्नप्रतियोगिताकभेदत्वरूपहेतुतावच्छेदकस्योपादानमेव न सम्भवति, तत्सामानाधिकरण्यस्य तत्तधर्मत्वात्मकबाधत्वत्वादौ विरहात् इतरभेदव्याप्यतावच्छेदकस्वसमानाधिकरणधर्मान्तरस्यैवाप्रसिद्धस्तादृशभेदत्व-तत्तद्धर्मत्वयोविभिन्नघमिवृत्तित्वादिति तु परमार्थः ।
ननु घटत्वाद्यवच्छिन्नभेदावच्छिन्न प्रतियोगिताकभेदस्य घटत्वादिस्वरूपताया श्रावश्यकतया तत्तद्वाधत्वस्वरूपासिद्धित्वावच्छिन्नभेदकूटावच्छिन्नप्रतियोगिताकभेदस्यापि तत्तद्वायत्वादिस्वरूपत्वमेव स्वीकरणीयमितिधर्मभेदाभावान्निरुक्तलक्षणात्मकहेतोवययं दुरिमित्यत पात तत्तद्धर्मेति । घटत्वाद्यवच्छिन्नभेदमात्रावच्छिन्नप्रतियोगिताकभेदस्येत्यर्थः। घटभेद-पटत्योभयघद्भेदस्य घटातिरिक्तमठादावपि वर्तमानतया तादृशोभयावच्छिन्नभेदस्य घटत्वरूपता न सम्भवतीत्यतो भेदमात्रावच्छिन्नेत्युक्तमिति ध्येयम् ।
स्वप्रतियोगितेति । स्वं चरमभेदः तत्प्रतियोगितावच्छेदकीभूतो यः प्रथमभेदः तत्प्रतियोगितावच्छेदकतत्तद्धर्मात्मकत्वेऽपीत्यर्थः । तादृशेति । बाधत्वव्यभिचारत्वादिरूपतत्तद्धर्मावच्छिन्नभेदकूटावच्छिन्न प्रतियोगिताकभेदत्वस्येत्यर्थः । नाना धर्मेषु = बाधत्वव्यभिचारत्वादिषु । तद्विशिष्टेति । भेदत्वविशिष्टेत्यर्थकम् ।
तथाच तादृशभेदकूटावच्छिन्नभेदत्वविशिष्टस्य तादृशभेदरूपधर्मिणस्ताहशतत्तधर्मत्वविशिष्टतत्तद्धर्मातिरिक्तत्वस्यावश्यं स्वीकरणीयतया धर्मिभेदान्न वैवर्थ्यमित्याशयः।
__® कलाविलासः नैवेतरभेदानुमापकत्वं बोध्यम् । एवञ्चान्योन्याभावस्य तद्धर्मभिन्नत्वेऽपि हेतुतावच्छेदके सामानाधिकरण्यस्य सत्वात् धर्मिभेदादित्यभिधानमसंगतमिति तु चिन्तनीयम्।
"Aho Shrutgyanam"

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308