Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini
View full book text
________________
अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
* दीधितिः * सम्भवन्ति तावदन्यान्यत्वम्,
* गादाधरी *
तावदन्यान्यत्वमिति । यत्रच यादृशपक्षसाध्यहेतुकस्थले यादृशदोषज्ञानस्य प्रतिवध्यज्ञानं प्रसिद्ध्यति, यथा निर्वह्निः पर्वतो वह्निमान् धूमादित्यादौ वह्निविशिष्टपर्वतादिरूपाश्रयासिद्धि-धूमाभावविशिष्टनिर्वह्निपर्वतादिरूपस्वरूपासिद्ध्यादीनां ज्ञानस्य तत्र तादृशदोषाणां ग्राह्याभात्र तद्व्याप्यरूपतघटकभेदेन विशेषणविशेष्यभावभेदेन च भिन्नानामनुगतेन विशिष्ट - पक्षे विशिष्टसाधनवैशिष्टयग्रह विरोधित्वरूपासिद्धित्वादिनैव तावदन्यान्यत्वघटकभेदप्रतियोगिवि
२५२
* चन्द्रकला *
धर्मितावच्छेदकतासम्बन्धेन निरुक्तरीत्या प्रतिबध्य प्रतिबन्धकभावकल्पने पर्वतो वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टहृदादावतिव्याप्तिः, पर्वतविशेष्यकवह्निप्रकारकज्ञानसमानाकारकस्य हृदो वह्निमानित्यादिग्रहस्य प्रतिबन्धकतावच्छेदकविषयिताकत्वस्य तत्र सत्त्वादिति समाधत्ते तादृशेति । निरुक्तरीत्या प्रतिबध्य प्रतिबन्धकभावमभ्युपगच्छतां मताश्रयणे इत्यर्थ इति दिक् ।
काञ्चनमयपर्वतपक्षकस्थले पर्वतादिपचादौ दोषस्याऽप्रसिद्धत्वात् यादृशेत्यादिकं यद्रूपावच्छिन्नार्थकतया व्याचष्टे सर्वत्रेति । तथा च पक्षतावच्छेदकावच्छिन्नपक्षकसाध्यतावच्छेदकावच्छिन्न साध्यक हेतुतावच्छेदकावच्छिन्न हे तावित्यर्थ करणान्न कुत्राऽपि दोषाणामप्रसिद्धिरिति भावः ।
लाघवमभिप्रेत्याह श्रत्र चेति । निरुक्तलक्षणे चेत्यर्थः । प्रतिबध्यज्ञानस्य प्रसिद्धिं दर्शयति यथेति । ग्राह्याभावेति । प्रतिवध्यत्वेनाभिमतज्ञानीय प्रकारीभूतस्य वस्तुनो योऽभावस्तद्वयाप्यभेदेनेत्यर्थः । विशेष्येति । विशेष्यत्वविशेषणत्वभेदेन चेत्यर्थः । प्रकृते च वह्निमत्पर्वत- वह्निव्याप्यवत्पर्वत-धूमाभावविशिष्टनिर्वह्नि धूमाभावव्याप्यविशिष्टनिर्वह्निपर्वतवृत्तिवह्नयादि - निर्वह्निवृत्तिधूमाभावादयो दोषाः ग्राह्याभावतद्वयाप्यादिभेदेन बोध्याः ।
विशिष्टपक्ष इत्यादि । पक्षतावच्छेदकावच्छिन्न विशेष्यतानिरूपित हेतुतावच्छेदकावच्छिन्न प्रकारता शालिग्रहत्वव्यापक प्रतिबध्यतानिरूपित प्रतिबन्धकतानतिरिक्तवृत्तिस्वावच्छिन्नविषयिताकधर्मरूपाऽसिद्धित्वादिनैवेत्यर्थः । तावदन्येति । तावदु भिन्नभिन्नत्वघटकप्रथममेदप्रतियोगिविघयेत्यर्थः ।
" Aho Shrutgyanam"

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308