Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini
View full book text
________________
२३५
चन्द्रकला कलाविलासाख्यटीकाद्वयोपेतम्
* गादाधरी. तदपि न, वद्विव्याप्यवान् वह्विव्याप्यव्याप्यवांश्च हृदो वह्वयभाववानित्येताहशाहाय॑ज्ञानोपगमेन वहयभावादिमत्त्वविषयिताया वह्निव्याप्यादिमत्त्वनिश्चयवृत्तितया उक्तातिव्याप्त्यनवकाशेन शेषसार्थक्यानुपपत्तेः। वहिमान्वहिव्याप्यवांश्च ह्रदो वह्नयभाववानित्येताहशाहार्यसाध्या
* चन्द्रकला * ताहशनिश्चयावृत्तिविषयिताशालिनिश्चयोत्तरानुमितित्वव्यापकोभयाभावरूपशेषोपादाने तु न तत्रातिव्याप्तिः, वहृयभाववढ्दत्वावच्छिन्नताहशविषयिताशालितथाविघनिश्चयाव्यवहितोत्तरानुमितित्वस्य हृदो वह्निव्याप्यधूमवान् तादृशधूमव्याप्यतद्व्यक्तित्ववांश्चेत्याकारकानुमितावपि वर्तमानतया तत्र तादृशोभयाभावविरहात् वहयभावनिश्चयस्य वह्निन्यायप्रकारकबुद्धावप्रतिबन्धकत्वादिति तु समुदितग्रन्थतात्पर्यम्।
निरुक्तमपि मतं दूषयति तदपि नेति । यद्यपि निर्वह्निर्वह्निमानियादौ वयभावविशिष्टवतयभाववद्रूपबाधे लदणसमन्वयमनुकत्वा निरुक्तमते दूषणाभिधानमयुक्तं तथापि वक्ष्यमाणरीत्या तत्राप्यव्याप्तेरावश्यकत्वात्तत्र लक्षणसमन्वयो नाभिहितः इति ध्येयम् ।
निरुक्तमतस्याऽसमीचीनने हेतुमाह वह्निव्याप्यवानिति । हृदो वहिव्याप्य. धूमवानित्यत्र वढयभाववह देऽतिव्याप्तिवारणायैव शेषसार्थक्यस्याभिधानमसंगतं स्यात्, शेषानुपादानेऽपि तत्रातिव्यातेरसम्भवात् वह्निव्याप्यधूमवान् तादृशधूमव्याप्यवांश्च न्हदो वह्नयभाववानिल्याकारकस्य पते साध्यादिवैशिष्ट्यावगाह्याहार्यज्ञानस्यापि ताशकोटिद्वयावगाहिसंशयान्यनिश्चयात्मकतया तत्र वह्वयभावविशिष्ट-हदादिविषयि. ताया वर्तमानतयैव तादृशविरोधिविषयिताभिन्नतया तामादाय तत्रातिव्याप्तिवारणसम्भवे तादृशविरोधिविषयिताशालिनिश्चयाव्यवहितोत्तरानुमितिस्वव्यापकोभयाभावरूपशेषोपादानस्य निरर्यकत्वापत्तेरिति तात्पर्यम् ।
नन्वेवं शेषोपादानमेव माऽस्तु यद्रूपावच्छिन्ननिरूपितविषयिता पक्षे साध्यादिवैशिष्ट्यावगाहिताहशनिश्चयनिरूपितवृत्तित्वाभाववती तद्रूपवत्वमात्रस्यैव लक्षणार्थतायाः सर्वसामञ्जस्यादित्यत आह वह्निमानिति ।
तथाचोक्तविवक्षयापि न निस्तारः, हृदो वह्निमानित्यादौ वलयभाववन्ददादिरूपमाधादौ सर्वत्राऽसम्भवापत्तेः, वहिमान् वहिव्याप्यवांश्च हृदो वयभाववानित्याकारकाहार्यशानस्यापि कोटिद्वयावगाहिसंशयान्यताहशनिश्चयत्वेन धत्तुं शक्यतया तत्र
"Aho Shrutgyanam"

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308