Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 249
________________ २३३ चन्द्रकला कलाविलासाख्यटीकाद्वयोपेतम् * गादाधरी षयिताशालिनिश्चयोत्तरानुमितित्वव्यापक उभयाभावस्तत्त्वमिति समुदितार्थः । निश्चयत्वं च विशेषणविशेष्यतावच्छेदकभावानापन्नविरोधिकोटिद्वयप्रकारकैकधर्मिविशेष्यकज्ञानान्यज्ञानत्वम् । कोटिद्वये विशेषणविशे. 8 चन्द्रकला भासत्वमिति समुदितलक्षणार्थः । भवति हि ह्रदो वह्निमानित्यादौ वह्नयभावविशिष्टह्रदादिरूपवाधादी लक्षणसमन्वयः, बाधादिरूपतदभावनिश्चयस्य कार्यकालवृत्तितयाऽपि तत्प्रकारकवुद्धिप्रतिबन्धकतया हृदो वहयभाववान् हृदो वह्निमान् वह्निव्याप्यधूमवांश्चेत्याकारकसमूहालम्बनज्ञानानुत्पत्त्या वह्नयभावविशिष्टह्रदत्वावच्छिन्ननिरूपितविषयिताया हृदधर्मिकवहयादिप्रकारकनिश्चयाऽवृतित्वेन तस्या विरोधिविषयितात्मकतया तच्छालिनिश्चयाव्यवहितोत्तरघटाद्यनुमितित्वव्यापकत्वस्य हृदादिधर्मिकवह्नयादिप्रकारकत्वघटितोभयाभाबे सत्त्वात्। निश्चयत्वस्याहार्यज्ञानसाधारण्ये निर्वह्निः पर्वतो वह्निमानित्यादौ दोघे लक्षणसमन्वयो न सम्भवतीत्यत आह निश्चयत्वळचेति । तादृशेत्यादिः । विशेषणेत । विशेषणत्व-विशेष्यतावच्छेदकत्वशून्यं यत् विरोधिकोटिद्वयं तत्प्रकारकैकधर्मिकं यज्जानं तदन्यज्ञानत्वं निश्चयत्वमित्यर्थः । एतेन संशयान्यज्ञानत्वमेव तादृशनिश्चयत्वमिति फलितम् । ननु कोटिद्वये विशेषणत्व-विशेष्यतावच्छेदकत्वशून्यत्वविशेषणमुपेक्ष्य विरोधिकोटिद्वयप्रकारकैकधर्मिकज्ञानान्यज्ञानत्वमात्रमेव निश्चयत्वं लाघवात् वक्तव्यमित्यत आह कोटिद्वय इति । * कलाविलासः * तथाच तादृशोभयाभावप्रतियोगितावच्छेदकविशेष्यताविशिष्टप्रकारतावत्वं विरोधिविषयित्वम्, वैशिष्ठ्यञ्च स्वावच्छेदकावच्छिन्नविशेष्यतानिरूपितत्व-स्वावच्छेदकावच्छिन्नविशेष्यतानिरूपितप्रकारतावच्छेदकधर्मवत्वोभयसम्बन्धेन । धर्मवरवञ्च स्वावच्छिन्नरव-स्वावच्छिमव्याप्यतवावच्छिन्नत्वान्यतरसम्बन्धेनेति वदन्ति । निश्चयत्वञ्चति । प्रकारताविशिष्टप्रकारसाशालिज्ञानभिन्नज्ञानत्वं निश्चयत्वम्, वैशिष्ठ्यं स्वनिरूपकज्ञानीयस्व-स्वावच्छेदकधर्मावच्छिन्नविरोधितावच्छेदकधर्मावच्छिन्नत्व-स्वनिरूपितविशेष्यतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नविशेष्यतानिरूपितस्वैतत्रितयसम्बन्धेनेतिभावः । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308