Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 256
________________ २४० अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम् • गादाधरी. तावच्छेदककवह्नयभावादिमत्त्वज्ञानप्रतिबन्धकत्वे कल्पनीये धम्मितावच्छदुकभेदेन तदकल्पनप्रयुक्तलाघवानुरोधेन धम्मितावच्छेदकमनिवेश्यानाहार्य्यवह्नयादिविशिष्टबुद्धित्व-वर्यभावादिनिश्चयत्वाभ्यां समानधम्मिताव. च्छेदकत्वप्रत्यासत्त्यैव प्रतिवध्यप्रतिवन्धकमावः कल्प्यते । एवञ्च तद्देशनिष्ठस्य स्वफूवत्तिप्रतिबन्धकज्ञाननिरूपितप्रतिबन्धकतावच्छेदकसम्बन्ध - चन्द्रकला. धर्मितावच्छेदकेति । घटाभावपटाभावादिरूपधर्मितावच्छेदकमेदेनेत्ययः । प्रतिषध्येति । प्रतिबध्यत्वं प्रतिबन्धकत्वञ्चेत्यर्थः । कल्प्यत इति । अनाहार्यवहनिप्रकारकबुद्धित्वेन प्रतिबध्यत्वं ताशवन्यभावप्रकारकनिश्चयत्वेन प्रतिबन्धकत्वं तयोरवच्छेदकसम्बन्धस्तु धर्मितावच्छेदकत्वाख्य इति कल्प्यते इत्यर्थः । निर्वहनिर्वनिमानित्यत्र बाघेऽव्यातिं वारयति एवम्चेति । निरुक्तरीत्या प्रतिबध्य प्रतिबन्धकभावकल्पने चेत्यर्थः । तदेशेति। घटाभावादिनिष्ठस्येत्यर्थः । पूर्ववर्तीत । पूर्वोत्पन्नज्ञानात्मकघटाभावा दिधर्मितावच्छेदककतत्प्रकारकबुद्धिप्रति कलाविलासः 8 रकह्रदविशेष्यकबुद्धयुत्पादात् तत्पुरुषीयतादशवह्निप्रकारकबुद्धौ धर्मितावच्छेदकतासम्बन्धेन तत्पुरुषोयवलयभावप्रकारकनिश्चयस्य प्रतिवन्धकत्वं वक्तव्यम् । एवं जातिमान् वह्नयभाववानितिनिश्चयोत्तरं कालिकेन हृदस्व विशिष्टे वह्नयभावनिश्चयोत्तरमपि समवायादिना हृदत्वविशिष्टे वह्निप्रकारकज्ञानोत्पादात् स्वीयप्रकारतानिरूपितधर्मितावच्छेदकताघटकसम्बन्धावच्छिन्ननिरवच्छिन्नधर्मितावच्छेदकतासम्बन्धेन वह्नयादिप्रकारकबुद्धौ तादृशधर्मितावच्छेदकतासम्बन्धेन वयाद्यभावनिश्चयस्य प्रतिबन्धकत्वं विवक्षणीयम्, जातिमान् वयभाववानितिनिश्चयस्य जातिमान वह्निमानितिज्ञानप्रतिबन्धकत्वानुरोधात् धर्मितावच्छेदकतायां निरवच्छिन्नत्वमनिवेश्य पृथगेव प्रतिबध्यप्रतिबन्धकभावः कल्पनीयः । अन्यत् स्वयमूहनीयम् । अवच्छेदावच्छेदेन वह्वयादिप्रकारकवुद्धिं प्रत्येतन्मते प्रतिबन्धकस्वकल्पनं न सम्भवतीति तु नाशंकनोयम् ? वह्निप्रकारकबुद्धेः स्वीयप्रकारतावच्छेदकसंसर्गतानिरूपितसंयोगत्वनिष्ठावच्छेदकतानिरूपितप्रतियोगिकत्वनिष्ठावच्छेदकतानिरूपितवहिनिष्ठावच्छेदकतानिरूपितव्यापकत्वनिष्ठावच्छेदकतानिरूपितावच्छेदकत्वसमानाधिकरणधर्मितावच्छेदकत्वसम्बन्धेन प्रतिबध्यप्रतिबन्धकमावस्य कल्पयितुं शक्यत्वादिति ध्येयम् । "Aho Shrutgyanam

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308