________________
२४० अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम्
• गादाधरी. तावच्छेदककवह्नयभावादिमत्त्वज्ञानप्रतिबन्धकत्वे कल्पनीये धम्मितावच्छदुकभेदेन तदकल्पनप्रयुक्तलाघवानुरोधेन धम्मितावच्छेदकमनिवेश्यानाहार्य्यवह्नयादिविशिष्टबुद्धित्व-वर्यभावादिनिश्चयत्वाभ्यां समानधम्मिताव. च्छेदकत्वप्रत्यासत्त्यैव प्रतिवध्यप्रतिवन्धकमावः कल्प्यते । एवञ्च तद्देशनिष्ठस्य स्वफूवत्तिप्रतिबन्धकज्ञाननिरूपितप्रतिबन्धकतावच्छेदकसम्बन्ध
- चन्द्रकला. धर्मितावच्छेदकेति । घटाभावपटाभावादिरूपधर्मितावच्छेदकमेदेनेत्ययः । प्रतिषध्येति । प्रतिबध्यत्वं प्रतिबन्धकत्वञ्चेत्यर्थः । कल्प्यत इति । अनाहार्यवहनिप्रकारकबुद्धित्वेन प्रतिबध्यत्वं ताशवन्यभावप्रकारकनिश्चयत्वेन प्रतिबन्धकत्वं तयोरवच्छेदकसम्बन्धस्तु धर्मितावच्छेदकत्वाख्य इति कल्प्यते इत्यर्थः ।
निर्वहनिर्वनिमानित्यत्र बाघेऽव्यातिं वारयति एवम्चेति । निरुक्तरीत्या प्रतिबध्य प्रतिबन्धकभावकल्पने चेत्यर्थः । तदेशेति। घटाभावादिनिष्ठस्येत्यर्थः । पूर्ववर्तीत । पूर्वोत्पन्नज्ञानात्मकघटाभावा दिधर्मितावच्छेदककतत्प्रकारकबुद्धिप्रति
कलाविलासः 8 रकह्रदविशेष्यकबुद्धयुत्पादात् तत्पुरुषीयतादशवह्निप्रकारकबुद्धौ धर्मितावच्छेदकतासम्बन्धेन तत्पुरुषोयवलयभावप्रकारकनिश्चयस्य प्रतिवन्धकत्वं वक्तव्यम् । एवं जातिमान् वह्नयभाववानितिनिश्चयोत्तरं कालिकेन हृदस्व विशिष्टे वह्नयभावनिश्चयोत्तरमपि समवायादिना हृदत्वविशिष्टे वह्निप्रकारकज्ञानोत्पादात् स्वीयप्रकारतानिरूपितधर्मितावच्छेदकताघटकसम्बन्धावच्छिन्ननिरवच्छिन्नधर्मितावच्छेदकतासम्बन्धेन वह्नयादिप्रकारकबुद्धौ तादृशधर्मितावच्छेदकतासम्बन्धेन वयाद्यभावनिश्चयस्य प्रतिबन्धकत्वं विवक्षणीयम्, जातिमान् वयभाववानितिनिश्चयस्य जातिमान वह्निमानितिज्ञानप्रतिबन्धकत्वानुरोधात् धर्मितावच्छेदकतायां निरवच्छिन्नत्वमनिवेश्य पृथगेव प्रतिबध्यप्रतिबन्धकभावः कल्पनीयः । अन्यत् स्वयमूहनीयम् ।
अवच्छेदावच्छेदेन वह्वयादिप्रकारकवुद्धिं प्रत्येतन्मते प्रतिबन्धकस्वकल्पनं न सम्भवतीति तु नाशंकनोयम् ? वह्निप्रकारकबुद्धेः स्वीयप्रकारतावच्छेदकसंसर्गतानिरूपितसंयोगत्वनिष्ठावच्छेदकतानिरूपितप्रतियोगिकत्वनिष्ठावच्छेदकतानिरूपितवहिनिष्ठावच्छेदकतानिरूपितव्यापकत्वनिष्ठावच्छेदकतानिरूपितावच्छेदकत्वसमानाधिकरणधर्मितावच्छेदकत्वसम्बन्धेन प्रतिबध्यप्रतिबन्धकमावस्य कल्पयितुं शक्यत्वादिति ध्येयम् ।
"Aho Shrutgyanam