________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २३६
गादाघरी ॐ परे तु घटाभावादिधम्मितावच्छेदककवहथादिमत्त्वज्ञानम्प्रति तद्धर्मि
- चन्द्रकला घटाभावादिधर्मितावच्छेदककानाहार्यवन्यादिप्रकारकबुद्धौ घटाभावादिधर्मितापच्छेदककवन्याद्यभावादिप्रकारकतादृशनिश्चयस्थ प्रतिबन्धकत्वाभ्युपगमे घटाभावपटाभावादिरूपधर्मितावच्छेदकमेदेन हृदत्वजलस्वादिरूपधर्मितावच्छेदक. मेदेन चानन्तप्रतिबध्यप्रतिबन्धकमावस्य कल्पनीयतया महागौरवं स्यादतो धर्मितावच्छेदकमनिवेश्य धर्मितावच्छेदकतासम्बन्धेन अनाहार्यवहनिप्रकारकबुद्धित्वावछिन्न प्रति धर्मितावच्छेदकतासम्बन्धेन तादृशवहन्यभावादिप्रकारकनिश्चयत्वेन लाघवात् प्रतिबन्धकत्वं कल्पनीयम् , तत एव घटाभाववान वहन्याधभाववान् इति निश्चयकाले घटाभाववान् वह निमानित्यनाहार्यबुद्धिप्रतिबन्धोपपत्तिः, धर्मितावच्छेदकतासम्बन्धेन वन्यभावनिश्चयस्य घटाभावादी सत्वात् ।
नचैवं चैत्रस्य घयभाववान वहन्यभाववानितिनिश्चयदयायां मैत्रस्य धर्मिताव. च्छेदकतासम्बन्धेन घटाभावादी घहन्यादिप्रकारकज्ञानानुत्पादवारणाय धर्मितावच्छे. दकतासम्बन्धेन तत्पुरुषीयतादृशवन्यादिप्रकारकबुद्धित्व-तत्पुरुषीयताहशवहन्यभावादिप्रकारकनिश्चयत्वाम्यामेव प्रतिबध्यप्रतिबन्धकमावस्यावश्यं कल्पनीयतया पुरुष भेदेन भवन्मते प्रतिबध्यप्रतिबन्धकमावस्यानन्त्यापचिरिति वाच्यम्, तत्पुरुषस्य धर्मितावच्छेदकस्थले तत्पुरुषत्वावच्छिन्नविशष्यकतादृशवन्यादिप्रकारकबुद्धित्वादिना प्रतिवध्यप्रतिबन्धकमावस्य भवताऽपि कल्पनीयतया तत्पुरुषनिवेशस्योभयमत. सिद्धत्वादिति ध्येयम् । __एवञ्च न निर्वह्निर्वह्निमानित्यादौ वन्यभावविशिष्टवन्यभाववद्रूपबाधादापव्यातिः, वहन्यभाववान् वहन्यभावधानित्याकारकबाधनिश्चयोत्तरमनाहायवटाभाववान् वहनिमानितिज्ञानस्यैवोत्पत्त्या तादृशज्ञाने वहन्यभावादिधर्मितावच्छेदककत्वाभावं प्रति तत्पूर्वोत्पन्नवहन्यभाषवान् वन्यभाववानित्याकारकज्ञानीयवन्यभावनिष्ठधर्मितावच्छेदकत्वाख्यसांसर्गिकविषयताया एव प्रयोजकतायाः स्वीकरणीयतया वहन्यभावधर्मितावच्छेदककत्वस्य च निव निविशेष्यकवनिप्रकारकत्वव्यापकतया व्यापकाभावप्रयोजकीभूतावास्तादृशधर्मितावच्छेदकत्वाख्यविषयताया व्याप्यीभूतनिर्वहनि. विशेष्यकवह निप्रकारकत्वघटितोभयाभावप्रयोजकताया निर्विवादत्वादिति केषाञ्चिन्मतं प्रदर्शयति परेरिवति ।
कलाविलासः - परेविति । अन्न कल्पे चैत्रीयवह्वयभावविशिष्टइदनिश्चयोत्तरं मैनीयवदिमका
"Aho Shrutgyanam"