________________
२३८ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम्
• गादाधरी. एवञ्च याहशविशिष्टविषयिता निरुक्ततथाविधोभयाभावप्रयोजकताश्रयस्तादृशत्वमेव लक्षणम् । विषयितादौ विरोधित्वादिकथनन्तु स्वरूपाख्यानमात्रमेव इति प्रलपितमप्यनादेयमेव । निव्वहिष्वह्निमानित्यादिस्थलीयदोषस्य उक्तयुक्त्या दुःसङ्ग्रहात् ।
अत्र केचित् कश्चिदित्यन्ताग्रिमकल्प इवात्रापि कल्पे न दीधितिकृतो निर्भरः, निर्वहिव हिमानित्यादिस्थलीयदोषासङ्ग्रहेणास्वरसस्याग्रिमकल्पे कश्चिदित्यनेनेवात्रापि कल्पे वदन्तीत्यनेन सूचितत्वात् । निर्भरस्तु केचि. दित्यादिकल्पे एव । अत एव तत्र प्रकर्षबोधनाय प्राहुरित्युक्तमिति ।
चन्द्रकला न्नप्रतिबध्यतानिरूपित प्रतिबन्धकतावच्छेदकीभूता सती निरुक्तोभयाभावप्रयोजकता. श्रयस्तद्रपवत्वं हेत्वाभासत्वमिति समुदितलक्षणार्थः पर्यवसितः।
नन्वेवं विषयितायां. विरोधित्वाभिधानं निरर्थकमित्यत आह विषयितादाविति । स्वरूपाख्यानमिति । निरुक्तप्रतिवन्धकतावच्छेदकताया विषयिताया विवक्षणादित्याशयः।
प्रलपितमप्यनादेयमिति । तथा च पूर्वोक्तस्य लक्षणार्थत्वे अन्यत्र लक्षणसमन्वयसम्भवेऽपि निर्वनिनिमानित्यादौ वन्यभावविशिष्टवन्यभाववद्रूपबाधेडव्याप्तिः, ताहशोभयाभावप्रतियोगितावच्छेदकस्य वहन्यभाववतिव हनिवैशिष्ट्यावगाहित्वषटिततया वन्यभाववद्विशेष्यकवनिप्रकारकानुमितेस्तादृशदोषाधजन्यज्ञानस्य चाऽप्रसिरितिभावः। ___ यद्विषयकनिश्चयस्येत्यादिकल्पोत्तरकल्पस्यान्ते कश्चिदित्युक्तम् , यद्विषयकेत्यादिकल्पे च अत्रवदन्तीत्युक्तं दीधितिकृता, सुतरामुभयकल्पे एव निर्वइनिर्वह निमानित्यत्र वहन्यभाषविशिष्टवन्यभाववद्रूपबाधेऽव्याप्तिरित्यस्वरसः निक्क्तोभयकल्पे दोधितिकृतैव सूचित इति केचिद्वदन्ति, तन्मतमुपन्यस्यति अत्रकेचिदिति । अध्याहृताहु. रित्यनेनान्वयि इति बोध्यम् ।
सूचितत्वादिति । दीधितिकृतेतिशेषः । ननु तर्हि किं हेत्वाभासस्य लक्षणमेव न सम्भवतीत्यत आह निर्भरस्त्विति । केचिदित्यादोति । यादृशपक्षेत्यादिकल्प एवेत्यर्थः । तत्र = वाहपत्यादिकल्पे । इत्युक्तमिताति . पाहुरितिशेषः । निरुक्ताऽस्वरसस्य दीधितिकाराभिप्रेतत्वे मानाभावात् केचिदित्युक्तमिति ध्येयमिति दिक् ।
"Aho Shrutgyanam"