________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
® गादाधरी भ्रमान्यवृत्तियदीयविषयितासामान्यं ताडशनिश्चयावृत्ति तदीयविषयिताविवक्षणेन निर्वाहेऽपि विरोधियद्विषयिताशालिनिश्चयोत्तरानुमितिसामान्ये द्वयोव्य॑तिरेक इत्यनभिधाय यद्विषयकनिश्चयस्येत्यादिवकाभिधानस्य ग्रन्थकारीयरीतिविरुद्धत्वात् ।
एतेन विषयिताया उभयाभावप्रयोजकत्वं तादृशोभयाभावप्रतियोगितावच्छेदकं यद्रूपविशिष्टे येन सम्बन्धेन यद्रूपावच्छिन्नवैशिष्ट्याबगाहित्वघटितं तद्रूपावच्छिन्नविशेष्यकतत्संसर्गकतद्रूपावच्छिन्नप्रकारकत्वविशेषितेनानुमितित्वेनानाहाय्यलौकिकसन्निकर्षाधजन्यज्ञानत्वेन वा अवच्छिना या प्रतिबध्यता तनिरूपितप्रतिबन्धकतावच्छेदकत्वम् ।
® चन्द्रकला 'दोषः, श्राहार्यज्ञानस्य भ्रमात्मकतया तदन्यवृत्तिवन्यभावविशिष्टहृदादिविषयितायाएव तादृशविषयितासामान्यान्तर्गततया तस्याश्च निरुक्तपक्षघमिकसाथ्यादिप्रकारकाहायज्ञानेऽसत्वान्नाऽसम्भवा, व्यापकत्वार्थकसामान्यपदोपादानेन न घटादावुदासीनेऽतिव्याप्तिरिति भ्रमान्येत्यादिनाऽशंक्य समाधानमाह विराधोति । तादृशेत्यादिः। ग्रन्थकाररीतिविरुद्धत्वादिति । तथाच यद्विषयकनिश्चयस्य विरोधिषिषयिताप्रयुक्तत्यादिदीधितिकारोक्तलक्षणस्य निरुतार्थकत्वाभिधानं न समीचीनमिति भावः।
एतेनेति । निर्वनिर्वनिमानित्यादिस्थलीयदोषेऽव्याप्तिभयेनेत्यर्थः । समुदितार्थमाह एवळचेति । तथाच यद्रूपावच्छिन्ननिरूपितविषयिता निरुक्तोभयाभावप्रतियोगितावच्छेदकं यद्रूपावच्छिन्नांशे यद्पावच्छिन्नवैशिष्ट्यघटितं तद्रूपावच्छिन्नविशेष्यकतद्रूपावच्छिन्नप्रकारकलौकिकसन्निकर्षदोषविशेषाजन्यबुद्धित्वावच्छि -
* कलाविलासः - भ्रमान्यवृत्तीति । ननु निर्वह्निःपर्वतो वह्निमानित्यादौ यत्र पर्वतत्वसामानाधिकरण्येन वह्नयभावस्य पक्षतावच्छेदकता तत्र पर्वतत्वसामानाधिकरण्येन वह्निमत्पर्वतस्य दोषत्वापत्तिः, भ्रमान्यवृत्तिनिरुक्तविशिष्टविषयितासामान्यस्यैव यथोक्तनिश्चयावृत्तित्वात् , तादृशविशिष्टविषयकनिश्चयोत्तरघटाद्यनुमितिसामान्ये तादृशोभयाभावस्यापि सत्त्वादिति चेदत्र केचित्-सम्बन्धप्रकारकसाधारणभ्रमत्वस्यानुगततया वृक्तुमशक्यत्वात् तसद्ममभिन्नत्वमेव निवेशनीयम्, तथाच पर्वतत्वसामानाधिकरण्येन वह्वयभावावगाहितादृशभ्रमभेदस्याऽनिवेशात् भ्रमान्यवृत्तितादृशविशिष्टविषयितायाःपूर्वोक्तनिश्चयवृत्तित्वं निराबाधमिति तत्रातिण्याक्षरसम्भवादित्याहुः ।
"Aho Shrutgyanam"