________________
२३६
अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
* गादाधरी
दिवैशिष्ट्य निश्वये हृदो वह्निमानित्यादिस्थलीयबाधादिविषयितायाः सत्वेनासम्भवप्रसङ्गाच्च । वह्नथादिरूपधर्मितावच्छेद कानवच्छिन्नवह्नयभावादिविशेषितदादिनिरूपित विषयितायाः साध्यादिनिश्चयावृत्तित्वेऽपि घटादिनिरूपिताया अपि दोषविशेषावच्छिन्नाया विषयितायाः साध्यादिनिश्वयावृत्तितया घटादावुदासीनेऽतिव्याप्तिवारणाय यादृशविशिष्टविषयितासामान्यं तादृशनिश्चयावृत्ति तादृशविशिष्टनिरूपितविषयिताया एव वि रोधिविषयितेत्यनेन विवक्षणीयतया अप्रतीकारात् ।
चन्द्रकला
वह्नयभाववद्दत्वावच्छिन्न विषयिताया वृत्तेः वह्नयभावादि विशिष्ट हदादिविषयितायां यथोक्तविरोधिविषयितात्वविरहादिति भावः ।
यदिच यत् किञ्चिदूवह्निरूपधर्मानवच्छिन्नवह्न्यभावविशिष्ठ इद विषयिताया वह्निमान्वह्निव्याप्यवश्च दो वह्नयभाववानित्याहार्य व निधर्मितावच्छेदककतादृशनिश्वयावृत्तितया नोक्ताऽसम्भवः सम्भवति तदा निरुक्तरीत्या हदो वह्निमानित्यादौ घटादावुदासीनेऽतिव्याप्तिः, वह्न्न्यभावादिविशिष्टहदादिविषयकघटादिविषयकसमूहालम्बनशानोयत्वविशिष्टयत् किञ्चिद्घटादिविषयिताया वह्नयभाववद् इदविषयित्वावच्छिन्नाया न्ददादिघर्मिकाचादिप्रकारकतादृश निश्चयावृत्तित्वादित्यतो यद्रूपावच्छिन्ननिरूपित विषयितासामान्यं प्रकृतपचे साध्यादिवैशिष्ट्यावगाहियथोक्तनिश्चया. वृत्तीत्यस्य विवक्षणान्नोत्तातिव्याप्तिः, घटविषयितायाः पदे साध्यवैशिष्ट्यावगाहिघटविषयकसमूहालम्बनतादृशनिश्चयवृत्तित्वेन तस्या विरोधिविषयितानात्मकत्वात् ।
एवञ्चासम्भववारण मशक्यं वह्न्यभावविशिष्ट हद विषयितासामान्यान्तर्गताया वह्न्न्यादिरूपधर्मिंतावच्छेदकाद्यवच्छिन्नवहूनिमान् वहूनिव्याप्यवांश्च हदो वन्यभाववानित्याकारकाहार्यंज्ञानीयवहून्याद्यभावविशिष्टहदादिविषयिताया निरुक्ताहार्यज्ञानाहमके पक्ष साध्यादिवैशिष्ट्यावगाहितादृश निश्चये वर्त्तमानत्वादित्याह वह्नधादीति । आदिना व्याप्त्यादेः परिग्रहः ।
यादृशेति यद्रूपावच्छिन्ननिरूपित विषयितात्वव्यापकं ताहशनिश्चयावृत्तित्वमित्यर्थः, सामान्यपदस्य व्यापकत्वार्थकत्वात् । श्रप्रतीकारादिति पूर्वोक्ताऽसम्भवस्य वारयितुमशक्यत्वादित्यर्थः ।
ननु भ्रमान्यवृत्तियद्रूपावच्छिन्ननिरूपितविषयितात्वव्यापकं तादृशनिश्चयाऽवृत्तिस्वं तद्रूपावच्छिन्नविषयिताया एव विरोधिविषयितेत्यनेन विवक्षणीयतया न कोऽपि
"Aho Shrutgyanam"