SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २४१ गादाधरी स्य उत्तरवर्तिज्ञाननिष्ठप्रतिबध्यतावच्छेदकसम्बन्धेन तद्देशासम्बन्धित्वं प्रति प्रयोजकतया वलयभावादिनिष्ठवह्नयभावादिप्रकारकज्ञानीयधम्मितावच्छेदकताख्यविषयतायास्तदुत्तरोत्पन्नानाहार्यवह्नयादिप्रकारकज्ञानस्य वह्नथभावादिधम्मितावच्छेदककत्वविरहप्रयोजकत्वाद्वथभावादिविशिष्ट वतयादिवैशिष्ट्यावगाहित्वविरहस्य क्यभावादिधम्मितावच्छेदकताकवहृयभावादिप्रकारकनिश्चयविषयित्ताप्रयुक्तत्वमक्षतमेवेति तादृशनिश्चयविषयस्य दोषत्वमव्याहतमेव । * चन्द्रकला * बन्धकनिरूपित प्रतिबन्धकतावच्छेदकधर्मितावच्छेदकत्वादिसम्बन्धस्येत्यर्थः । उत्तरवर्तीति । प्रतिबन्धकीभूतज्ञानाव्यवहितोत्तरजायमानाऽप्रतिबध्यज्ञाननिष्ठमित्यर्थः। प्रतिबध्यतेति । धर्मितावच्छेदकत्वादिसम्बन्धेनेत्यर्थः । तद्देशाऽसम्बन्धित्वम् = घटामावादाववर्तमानत्वम् । प्रकृतस्थले लक्षणसमन्वयमाह वन्यभावादीति । नन्वेवं घटाभाववान् वहन्यभाववानित्याकारकज्ञाने वन्यभाववान् वन्यभाववानितिनिश्चयोत्तरोत्पन्ने वन्यभावधर्मितावच्छेदककत्वाभावप्रयोजकताया धर्मितावच्छेदकत्वाख्यसांसर्गिकविषयतायां सत्वेऽपि पक्षे साध्यादिवैशिष्ट्यावगाहित्वघटिततादृशोभयाभावप्रयोजकतायास्तत्र विरहात् कथं तत्र बाधे लक्षणसमन्वय इत्यत आह वहन्यभावादीति । तथा च वन्यभावधर्मितावच्छेदककत्वस्य निर्वह् निविशेष्यकवह निप्रकारकत्वव्यापकतया व्यापकाभावप्रयोजकीभूतायास्तादृश विषयितायास्तादृशव्याप्याभावस्यापि प्रयोजकताया निर्विवादतया तत्र लक्षणसमन्वयो निराबाध इति भावः । वह्नयभावादीति । वहन्यभावप्रकारकत्व व निव्याप्यधूमप्रकारकत्वोभयाभावस्येत्यर्थः । तादृशेति वन्यभाववान् वन्यभाववानित्याकारकनिश्चयविषयस्वेत्यर्थः । __ननूक्तरीत्या . अनाहार्यधन्यादिप्रकारकबुद्धौ ताशवन्यभावादिप्रकारकनिश्चयस्य प्रतिबन्धकत्वाभ्युपगमे यादृशस्थले प्रथमं घटाभाववान् वहुन्यभाववानितिनिश्चयस्ततो निर्वनिनिष्ठविशेष्यताकवह निप्रकारकज्ञानं जायतामितीच्छा ततो घटाभाववद्विशेष्यकवह निप्रकारकज्ञानेच्छायामसत्यामपि पूर्वोक्तच्छाबलात् निर्वनिर्वह निमान् घटाभाववांश्च वनिमानित्याकारकसमूहालम्बनज्ञानापत्तिः, घटाभाववान् वन्यभाववानित्याकारकनिश्चयस्य धर्मितावच्छेदकतासम्बन्धेन १६ "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy