________________
२४२ अनुमानगादाधों सामान्यनिरुक्तिप्रकरणम्
गादाधरी नच धम्मितावच्छेदकनिष्ठपत्यासत्या विपरीतज्ञानस्य प्रतिबन्धकत्वे निस्वह्निविशेष्यकवह्निज्ञानं जायतामित्याकारकेच्छाजन्यनिवह्निव्वेंह्निमान् घटाभाववांश्च बह्निमानित्याद्यांशिकाहाय्य॑ज्ञानस्य विपरीतज्ञानप्रतिबध्यतावच्छेदकानाक्रान्ततया घटाभाववान् वह्नयभाववानित्यादिनिश्चयकाले तथाविधेच्छासत्त्वे घटाभावविशिष्टविशेष्यकवह्निज्ञानं जायतामित्याकारकेच्छां विनैव तादृशज्ञानापत्तिरिति वाच्यम्, यतः सामान्यतो वह्नया
__चन्द्रकला घटाभावादी सत्वेऽपि तस्य तादृशसम्बन्धेन अनाहार्यवह निप्रकारकबुद्धावेव प्रतिबन्धकतया निरुक्तसमूहालम्बनज्ञानस्याहार्यत्वेन तत्प्रतिबन्धकतायास्तत्र विरहात् तदानीं तादृशसमूहालम्बनज्ञानोत्पत्तौ बाधकान्तरस्य वक्तुमशक्यत्वादित्याशंकते नचेति । वाच्यमितिपरेणान्वयः ।
धर्मितेति । धर्मितावच्छेदकतासम्बन्धेनेत्यर्थः । विपरीतज्ञानस्य = तदभावप्रकारकनिश्चयस्य । प्रतिबन्धकत्व इति । अनाहार्यतत्प्रकारबुद्धीत्यादिः । वन्यभाववद्विशेष्यकत्वावच्छेदेनाहार्यत्वं घटाभाववद्विशेष्यकत्वावच्छेदेन चानाहार्यत्वमित्यांशिकसमहालम्बनज्ञानोत्पादापत्ति प्रदर्शयति निवतीति ।
तथाविधेति । वन्यभाववन्निष्ठविशेष्यताकवह निप्रकारकशानं जायतामि. त्याकारकेच्छासत्त्वे इत्यर्थः। घटाभाववद्विशेष्यकवह निप्रकारकशानं जायतामित्याकारकेच्छासत्त्वे तादृशसमूहालम्बनज्ञानोत्पादस्येष्टत्वादाह घटाभावेति । तादृशेति । निर्वहनिर्वहनिमान् घटाभावांश्च वह्निमानित्याकारकज्ञानोत्पादापत्तिरित्यर्थः।। ___अत्राऽनाहार्यत्वं न श्राहार्यज्ञानभिन्नत्वम् वन्यादिज्ञानेच्छाविशिष्टं यत् तदन्यत्वं वा येनताशशानोत्पादापत्तिः स्यात्, अपि तु स्वनिरूपितज्ञाननिष्ठविषयतानिरूपिता या निरूपकत्वसम्बन्धावच्छिन्नविशेष्यत्वनिष्ठावच्छेदकता तन्निरूपितनिष्ठत्वसम्बन्धावच्छिन्नावच्छेदकतानिरूपितावच्छेदकत्वसम्बन्धावच्छिन्नप्रतियोगिताकेच्छाभावस्य या तादृशेच्छारूपस्वाव्यवहितप्राक्क्षणावच्छिन्नाधिकरणता तद्विशिष्टधर्मितावच्छेदकतासम्बन्धेन वयादिप्रकारकबुद्धिं प्रति तादृशधर्मितावच्छेदकतासम्बन्धेन वहन्याद्यभावप्रकारकनिश्चयत्वेनैव प्रतिबन्धकतायाः कल्पनीयतथा न तादृशज्ञानोत्पादापत्तिः ।
निर्वह निनिष्ठविशेष्यताकवनिप्रकारकज्ञानं जायतामितीच्छाया यत् ज्ञाननिष्ठं स्वविषयत्वं तन्निरूपितनिर्वनिनिष्ठविशेष्यत्वनिष्ठावच्छेदकतानिरूपितनिष्ठत्वसम्बन्धा.
"Aho Shrutgyanam"